SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४०॥ ततो वाचंयमःप्रोचे, सम्यग् वादित्रवादनम् ॥ रे! कोलिकौ! न जानीथो, युवां जडशिरोमणी ॥ १९ ॥ तदाका द्वितीयमध्यतिरष्टौ तौ, मुनिं हन्तुमधावताम् ॥ नियुद्धवेदी साधुस्तु, तावायान्तौ गृहीतवान् ॥ २०॥ कुदृयित्वा तदङ्गानि, यनम् (२) सन्धिभ्यश्चोदतारयत् ॥ मुनिना हन्यमानौ तु, तौ चक्रन्दतुरुच्चकैः॥ २१ ॥श्रुत्वाऽऽक्रन्दास्तदा दध्यौ, बहिःस्थस्तत्प|रिच्छदः ॥ हन्यमानः कुमाराभ्यां, नूनमाक्रन्दति व्रती ॥ २२॥ ऋषिद्विषोस्तयोरेवं, शिक्षां दत्वा गते मुनौ॥साशकस्तत्परिकर-स्तयोः पार्श्वमगात्ततः॥ २३ ॥ निश्चेष्टौ काष्टवद्वक्तु-मप्यशक्तौ गतौ भुवम् ॥ दृशाऽतिदीनया प्रेक्षमाणौ सर्व परिच्छदम् ॥ २४ ॥ तो समीक्ष्य तथावस्थौ, सम्भ्रान्तस्तत्परिच्छदः॥ न्यवेदयदुदन्तं तं, द्रुतं नृपपुरोधसोः ॥ २५॥ [युग्मम् ] तदाकातिसम्भ्रान्तौ, सद्यो राजपुरोहितौ ॥ पुत्रयोर्दुरवस्थां तां, तत्रायातावपश्यताम् ॥ २६ ॥ परीवारगिरा ज्ञात्वा, मुनिमूलां दशां च ताम् ॥ जग्मतुर्यतिपार्थे तौ, क्षिप्रं मापपुरोधसौ ॥ २७ ॥ इत्यूचतुश्च नत्वा श्री-आर्यराधपदाम्बुजान् ॥ पूज्याः! प्रसीदतेदानी, पुत्रौ जीवयताऽऽवयोः ॥ २८॥ आयेंराधा जगुभूप!, वेझयहं नात्र किञ्चन ॥ प्राघूर्णकममुं किन्तु, प्रसादय महामुनिम्॥ २९ ॥ भूपोऽप्युत्थाय तत्पाथे, गत्वा नत्वा || च तं मुनिम् ॥ उपाविशत्पुरस्तस्य,प्रत्यभिज्ञातवांश्च तम् ॥ ३०॥ एवञ्चोवाच हे भ्रातः!, खभ्रातृव्यं पटूकुरु ॥ ततो मुनिर्जगादेत्थं, तस्य कल्याणकाम्यया ॥ ३१॥ यत्त्वं स्वपुत्रभाण्डाना-मपि साधु विडम्बनाम् ॥ शिक्षां दातुं न शक्नोषि, तत्सौराज्यं धिगस्तु! ते ॥३२॥राज्ञा न्यायवता लोकं, सामान्यमपि पीडयन् ॥ निग्राह्यः खलु पुत्रोऽपि,
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy