SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ २५ ॥ स्त्री रामा, सैव तद्गतरागहेतुगतिविलासहास चेष्टा चक्षुर्विकारकुचभाराद्यवलोकनेऽपि तदभिलापविनिवर्त्तनेन परिपह्यमाणत्वात् परीषहः ( ८ ) चर्या विहारात्मिका ( ९ ) नैषेधिकी खाध्यायभूः (१०) शय्या उपाश्रयः ( ११ ) | आक्रोशोऽसभ्यभाषणरूपः ( १२ ) वधो लकुटादिभिस्ताडनम् (१३) याचना प्रार्थना ( १४ ) अलाभो वाञ्छितवस्तुनोऽप्राप्तिः (१५) रोगः कुष्टादिः ( १६ ) तृणस्पर्शो दर्भादिस्पर्शः ( १७ ) जल्लो मलः ( १८ ) सत्कारो वस्त्रादिभिः पूजनम्, पुरस्कारोऽभ्युत्थानादिसम्पादनम्, तावेव परीपहः (१९) प्रज्ञा स्वयं विमर्शपूर्वको वस्तुपरिच्छेदः ( २० ) ज्ञानं मत्यादि, तदभावश्चाज्ञानम् ( २१ ) दर्शनं सम्यग्दर्शनम्, तदेव विचित्रमतश्रवणेऽपि सम्यक् | परिषद्यमाणं निश्चलतया धार्यमाणं परीषहो दर्शनपरीषहः (२२) इत्थं नामतः परीषहानुक्त्वा खरूपतो विवक्षुस्तानाहमूलम् - परीसहाणं पविभत्ती, कासवेणं पवेइआ ॥ तं भे उदाहरिस्सामि, आणुपुत्रिं सुणेह मे ॥ १ ॥ व्याख्या - परीपहाणां पूर्वोक्तानां प्रविभक्तिः पृथक्स्वरूपतारूपः प्रविभागः काश्यपेन श्रीमहावीरेण प्रवेदिता प्ररूपिता, तां परीषहप्रविभक्तिं 'भेत्ति' भवतां उदाहरिष्यामि प्रतिपादयिष्यामि आनुपूर्व्या क्रमेण शृणुत हे शिष्याः ! यूयमिति शेषः, मे ममोदाहरतः सकाशादिति सूत्रार्थः ॥ १ ॥ इह च " छुहासमा वेअणा नत्थि" इति वचनात् परीषहाणां मध्ये क्षुत्परीपह एव दुस्सह इत्यादितस्तमाह | मूलम् — दिगिंछापरिगए देहे, तवस्सी भिक्खु थामवं ॥ ण छिंदे ण छिंदावए, ण पए ण पयावए ॥ २ ॥ द्वितीयमध्ययनम् (२) ॥ २५ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy