SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ___ व्याख्या-दिगिंछापरिगते क्षुधाव्याप्ते देहे शरीरे सति तपखी षष्ठाष्टमादिविकृष्टतपोनुष्ठायी भिक्षुर्मुनिः स्थामवान् संयमबलवान् न छिन्द्यात् स्वयं, न छेदयेदन्यैः, फलादिकमिति शेषः, तथा न पचेत् खयं, न चान्यैः पाचयेत् , उपलक्षणत्वाच नान्यं छिन्दन्तं पचन्तं वाऽनुमन्येत, एवं न खयं क्रीणीयान्नापि कापयेदन्यैर्न चान्यं क्रीणन्तमनुमन्येत, तदेवं क्षुत्क्षामकुक्षिरपि नवकोटिशुद्धमेवाहारं खीकुर्यादिति सूत्रार्थः ॥ २ ॥ किञ्चमूलम्-कालीपत्वंगसंकासे, किसे धमणिसंतए ॥ मार्यपणे असणपाणस्स, अदीणमणसो चरे ॥३॥ ___ व्याख्या-काली काकजंघा, तस्याः पर्वाणि कालीपर्वाणि, तत्संकाशानि तत्सदृशानि तपःशोपितमांसशोणिततयाऽङ्गानि बाहुजंघादीनि यस्य स कालीपर्वसंकाशाङ्गः, सूत्रे तु व्यत्ययः प्राकृतत्वात् । अत एव कृशः कृशशरीरः, धमनीभिः शिराभिः सन्ततो व्याप्तः, इदृशावस्थोऽपि मात्रज्ञः परिमाणवेदी, नत्वतिलौल्यादतिमात्रोपभोगी, कस्ये| स्याह-अशनमोदनादि, पानं सौवीरादि, तयोः समाहारेऽशनपानं, तस्य । तथा अदीनमना अनाकुलचितश्चरेत् संयममार्गे यायात् । अयं भावः, अत्यन्तं क्षुधापीडितोऽपि साधुर्नवकोटीशुद्धमप्याहारं प्राप्य न लौल्यादतिमात्रं भुञ्जीत, तदप्राप्तौ च न दीनत्वमवलम्बेतेत्येवं क्षुत्परीषहः सोढो भवतीति सूत्रार्थः ॥ ३॥ उदाहरणश्चात्र, तथाहि___ अस्त्यत्र भरते वर्ग-जयिन्युजयिनी पुरी ॥ हस्तिमित्राभिधः श्रेष्ठी, तत्राभूद्भरिभूतिमान् ॥१॥ सौभाग्यसेवलाधिदक्षा-वधिस्तस्य च वल्लभा ॥ अकाण्ड एवानियत, स्वप्राणेभ्योऽपि वल्लभा ॥२॥ संसारासारतां ध्यायं-स्ततो
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy