________________
उत्तराध्ययन
॥७॥
स्त्रीनिर्देशोऽतीवकुत्सासूचकः, 'पूतिकर्णीति' विशेषणं तु सर्वागकुत्सासूचकम्, उपनयमाह - एवमनेन प्रकारेण दुःशीलो दुष्टाचारः, प्रत्यनीकः प्राग्वत्, मुखरो बहुविधासंबद्धभाषी, निष्काश्यते सर्वतः कुलगणसंघादेर्बहिः क्रियते, इति सूत्रार्थः ॥ ४ ॥ ननु कुतोऽयं ज्ञात्वाप्यनर्थहेतौ दौशील्ये रमते ? पापोपहतमतित्वात्तत्रैवास्य रतिः स्यादेत - | देव दृष्टांतेन दर्शयति
मूलम् - कणकुंडगं चइत्ताणं, विद्वं भुंजइ सूअरे । एवं सीलं चइत्ताणं, दुस्सीले रमई मिए ॥ ५ ॥
व्याख्या - कणास्तंदुलास्तेषां तन्मिश्रो वा कुंडकः कुक्कसः कणकुंडकस्तं त्यक्त्वा विष्टां पुरीषं भुंक्ते, शूकरो गर्त्ताशुकरो यथेति गम्यते, एवमविनीतः शीलं प्रस्तावाच्छोभनमाचारं त्यक्त्वा दुष्टं शीलं दुश्शीलमनाचाररूपं तत्र रमते धृतिमाधत्ते, मृग इव मृगोऽपायानभिज्ञत्वात्, यथा हि मृगो गीताक्षिप्तो मरणापायमपश्यन् व्याधमनुसरति, तथा - ऽयमपि प्रेत्यदुर्गतिपातमपश्यन्निर्विवेको दुःशीले रमते, इति सूत्रार्थः ॥ ५ ॥ उक्तमुपसंहृत्य कृत्यमुपदिशति — | मूलम् - सुणिआभावं साणस्स, सूअरस्स नरस्स य । विणए ठविज अप्पाणं, इच्छंतो हिअमप्पणो ॥ ६ ॥
व्याख्या - श्रुत्वा आकर्ण्य अभावं अशोभनभावं सर्वतो निष्काशनरूपं 'साणस्सत्ति' प्राकृतत्वात् शुन्याः शूकरस्य चोपमानस्य नरस्य चोपमेयस्य विनये स्थापयेदात्मानमात्मनैवेति शेषः, इच्छन् हितमैहिकं पारत्रिकं च आत्मनः,
प्रथम ध्ययनम् (१)
॥ ७ ॥