________________
व्याख्या - वेदा अधीता न भवन्ति त्राणं शरणं, तत्पठनमात्राद्दुर्गतिपातरक्षणासिद्धेः । उक्तं हि - " अकारणमधीयानो, ब्राह्मणस्तु युधिष्ठिर ! | दुष्कुलेनाप्यधीयन्ते, शीलं तु मम रोचते ॥ १ ॥ शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम् ॥ वृत्तस्थं ब्राह्मणं प्राहु-र्नेतरान् वेदजीवकान् ॥ २ ॥' तथा 'भुत्तत्ति' अन्तर्भूतणिगर्थत्वाद्भोजिता द्विजा नयन्ति तमसोपि यत्तमस्तमस्तमस्तस्मिन् अतिरौद्रे रौरवादिके नरके इत्यर्थः, णमिति वाक्यालङ्कारे, ते हि भोजिता कुमार्गप्ररूपणपशुवधादावेव प्रवर्त्तन्ते, ततः पात्रबुद्ध्या तेषां भोजनं नरकहेतुरेवेति कुतस्तेषां निस्तारकत्वं ? तथा जाताश्च पुत्रा न भवन्ति त्राणं नरकादौ पततामिति शेषः । उक्तञ्च वेदानुगैरपि - " यदि पुत्राद्भवेत्खर्गो, दानधर्मो न विद्यते ॥ मुषितस्तत्र लोकोयं, दानधर्मो निरर्थकः ॥ १ ॥ बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च ॥ तेषां च प्रथमं स्वर्गः, पञ्चालोको गमिष्यति ॥ २ ॥ यतश्चैवं ततः को नाम ? न कोपीत्यर्थः, ते तव अनुमन्येत अनुजानीयात्सविवेक इति गम्यते एतत्पूर्वोक्तं वेदाध्ययनादीति ॥ १२ ॥ तथा-
मूलम् — खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिगामसुक्खा । संसारमोक्खस्स विपक्खभूआ, खाणी अणत्थाण उ कामभोगा ॥ १३ ॥ व्याख्या -- क्षणमात्रसौख्या बहुकालं दुःखं नरकादिविषयं येभ्यस्ते बहुकालदुःखाः, प्रकामदुःखा अतिशयितदुःखा
चतुर्दशमध्ययनम्
गा १३