SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ गाथा ९ ६ **SUPERMICROPC व्याख्या-एतमनन्तरोक्तमर्थ निशम्य, हतुः पञ्चावयवाक्यरूपः, कारणञ्चान्यथानुपपत्तिमात्रं, ताभ्यां चोदितः नवमाध्यप्रेरितो हेतुकारणचोदितः, इह च हेतुकारणे कोलाहलकसङ्कलाः शब्दाः श्रूयन्ते इत्यनेनैव सूचिते, तथा हि-अयुक्तमिदं यनम् तव निष्क्रमणमिति प्रतिज्ञा १। आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः२। यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनामयुक्तं, यथा प्राणातिपातादिरिति दृष्टान्तः ३ । आक्रन्दादिदारुणशब्दहेतुश्चेदं तव निष्क्रमणमित्युपनयः ४ । तस्मादयुक्तमेवेदं तव निष्क्रमणमिति निगमनमिति ५। पञ्चावयवमनुमानवाक्यमिह हेतुः । आक्रन्दादिदारुणशब्दहेतुत्वं त्वनिष्क्रमणस्यायुक्तत्वं विना नोपपद्यते इत्येतावन्मात्रं तु शेषावयवविवक्षारहितं कारणं, अनयोः पृथगुपादानं PIतु साधनवाक्यवैचित्र्यरचनार्थमिति ध्येयं । 'तओत्ति' ततः प्रेरणानन्तरं नमिराजर्षिदेवेन्द्रमिदमब्रवीदिति सूत्रार्थः । ॥ ८॥ यदवादीत्तदाह मूलम्--मिहिलाए चेइए वच्छे, सीअच्छाए मणोरमे। पत्तपुप्फफलोवेए, बहणं बहगुणे सया॥९॥ हा व्याख्या-मिथिलायां परि. चितिरिह प्रस्तावात पत्रपुष्पाद्यपचयस्तत्र साधु चियं चित्यमेव चैत्यमद्यानं तस्मिन 'वच्छेत्ति' सूत्रत्वादृक्षो विद्यत इति शेषः। कीदृशः ? इत्याह-शीतच्छायः शीतलच्छायो मनोरमो मनोरमाभिधः पत्रपुष्पफलोपेतो बहूनां प्रक्रमात् खगादीनां बहुगुणः फलादिभिभृशमुपकारी सदा सर्वकालं, एकारश्चात्र सूत्रे सर्वत्र मागधभाषानुसरणात् ज्ञेय इति सूत्रार्थः ॥९॥ तत्र किमित्याह
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy