SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ एकादशमध्ययनम् गा१८-१९ बहुश्रुतः। अयं भावः-यथैवंविधः शूरो न केनाप्यभिभूयते, न चान्यस्तदाश्रितस्तथायमपि जिनागमाश्चमाश्रितो दृप्तपरवादिदर्शनेपि चात्रस्तस्तजयम्प्रति समर्थ उभयतश्च दिनरात्र्योः खाध्यायघोषात्मकेन नान्दीघोषेणोपलक्षितो दृसैरपि परैर्न पराभूयते, न च तदाश्रितोन्योपीति सूत्रार्थः ॥ १७ ॥ मूलम्-जहा करेणुपरिकिण्णे, कुंजरे सट्ठिहायणे।बलवंते अप्पडिहए, एवं भवति बहुस्सुए ॥१८॥ ___ व्याख्या-यथा करेणुपरिकीर्णो हस्तिनीभिः परिवृत्तः कुञ्जरो हस्ती पष्टिहायनः पष्टिवर्षप्रमाणः तस्य ह्येतावत्कालं यावत्प्रतिवर्ष बलोपचयस्ततस्तदपचय इत्येवमुक्तं, अत एव च 'बलवंतेति' बलं वपुःसामर्थ्यमस्यास्तीति बलवान् , अप्रतिहतो न मदोत्कटैरपि परगजैः पराङ्मुखीक्रियते, एवं भवति बहुश्रुतः, सोपि हि करेणुभिरिव औत्पत्तिक्यादिबुद्धिभिर्विविधविद्याभिश्च वृतः षष्टिहायनतया स्थिरमतिरत एव च बलवत्तया अप्रतिहतो भवति, न हि दर्शनोपहन्तृभिः प्रतिहन्तुं शक्यत इति सूत्रार्थः ॥ १८ ॥ मूलम्-जहा से तिक्खसिंगे, जायखंधे विरायई । वसहे जूहाहिवई, एवं भवइ बहुस्सुए ॥ १९ ॥ __ व्याख्या--यथा स तीक्ष्णशृङ्गो निशितविषाणःजातोऽत्यन्तमुपचितः स्कन्धोस्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचयोपलक्षणञ्चैतत् , विराजते वृषभो यूथाधिपतिर्गोसमूहखामी सन् , एवं भवति बहुश्रुतः । सोपि परपक्षक्षोद
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy