SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन अष्टमाध्ययनम् (८) कपिलच ॥१९॥ रितम्. १०-२२ प्रोचे ब्रूहि मात-विद्याभ्यासाय पाठकम् ॥ यथा तदन्तिकेऽधीत्य, भवामि गुणवानहम् ॥ १० ॥ यशाऽशंसन्न कोऽप्यत्र, भवन्तं पाठयिष्यति ॥ यो हि त्वां पाठयेत्तस्मै, कुप्येन्नव्यपुरोहितः ॥ ११॥ तद्वत्स ! गच्छ श्रावस्ती, तत्रास्ति त्वत्पितुः सुहृत् ॥ इन्द्रदत्तद्विजः प्राज्ञः, स हि त्वां पाठयिष्यति ॥ १२ ॥ ततः स गत्वा श्रावस्ती-मिन्द्रदत्तं प्रणम्य च ॥ आत्मानं ज्ञापयित्वोचे, ताताऽध्यापय मामिति ॥ १३॥ उपाध्यायोऽभ्यधावत्स!, युक्तस्तेऽसौ मनोरथः ॥ विशेष नाहं कञ्चित् , पश्यामि पशुमूढयोः॥१४॥ किन्तु ते भोजनं दातुं, निःसत्वादक्षमोऽस्म्यहम् ॥ तद्विना च कथं नित्य-मखिन्नस्त्वं पठिष्यसि ? ॥ १५॥ भ्रातुप्पुत्राय ते विद्यार्थिने प्राघुर्णकाय च ॥ भोज्यदा|नेऽप्यशक्तोऽस्मि, तन्मे दुःखायते भृशम् ! ॥ १६ ॥ अलपत्कपिलस्तात !, कृतं चिन्तनयाऽनया ॥ भिक्षावृत्त्या | करिष्येऽहं, प्रत्यहं प्राणधारणम् ॥ १७॥ उवाच पाठको भिक्षा-वृत्त्याऽध्येतुं न शक्ष्यते ॥ तदेहि तव भुक्त्यथे, प्राथेये कञ्चिदीश्वरम् ॥ १८॥ इत्युक्त्वा स समं तेन, शालिभद्रेभ्यमन्दिरम् ॥ जगाम कुञ्जर इव, कलभेन समं सरः॥१९॥ ॐ भूर्भुवःखरित्यादि-गायत्रीमंत्रवादिनम् ॥ दत्ताशि तमिभ्योऽपि, किंकार्यमिति पृष्टवान् ॥२०॥ ऊचे द्विजोऽमुं मन्मित्र-पुत्रमध्येतुमागतम् ॥ भोजय प्रत्यहं ज्ञानो-पष्टम्भो हि महाफलः ॥ २१ ॥ सहर्ष शालिभद्रेण, तद्वाक्ये |खीकृतेऽन्वहम् ॥ पपाठ पाठकोपान्ते, भुक्त्वा तद्धाग्नि माणवः ॥ २२ ॥ भोक्तुगतस्य तद्गह, कपिलस्यानुवासरम् ॥ १ अल्पवयस्कः । ॥१९४॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy