SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ “अथाष्टमाध्ययनम्" कपिलचरितम् . व्याख्यातं सप्तममध्ययनं, अथ कपिलमुनिप्रणीतत्वेन कापिलीयाख्यमष्टममारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने रसद्धित्याग उक्तः, स च निर्लोभस्यैव स्यादित्यत्र निर्लोभत्वमुच्यते, इत्यनेन सम्बन्धेनायातस्याऽस्य प्रस्तावनार्थमादी कपिलमुनिचरितमुच्यते । तत्रायं सम्प्रदायः-- | तथाहि पुर्या कौशाम्ब्यां, जितशत्रुमहीशितुः ॥ पुरोधाः काश्यपाहोऽभू-विद्याम्भोनिधिपारगः॥१॥ यशखिनी यशा नानी, तस्यासीत्प्राणवल्लभा ॥ अजनिष्ट तयोः सूनुः, क्रमेण कपिलाभिधः ॥२॥ कपिले च शिशावेव, विपेदे काश्यपोऽन्यदा ॥ कालः कालमकालं वा, न हि मृत्योरपेक्षते ॥३॥ मृते तस्मिन्नपोऽन्यस्मिन् , पुरोहितपदं न्यधात् ॥ अस्तङ्गते रवी तेजः, प्रदोष इव दीपके ॥४॥ हयारूढं धृतच्छत्रं, तं नूतनपुरोहितम् ॥ गच्छन्तमन्यदापश्य-धशा भूरिपरिच्छदम् ॥५॥ तद्दर्शनानिलोद्भूत-भूरिदुःखानलार्दिता ॥ स्मारं स्मारं निजं कान्तं, रुरोद विवशा यशा ॥६॥ कपिलोऽपि निजामम्बां, रुदतीं वीक्ष्य दुःखितः ॥ रुदन्नित्यवदन्मात-स्त्वं रोदिषि कुतोऽनिशम् ? ॥७॥ साऽवादीदस्य विप्रस्य, या सम्पत् पुत्र! वर्त्तते ॥ साऽभवत्त्वत्पितुः सर्वा, गता च त्वयि निर्गुणे ॥८॥ सत्यपि त्वयि पुत्रे यत्, क्रमायाताऽप्यऽगाद्रमा ॥ ततोऽहं दुःखिता कुर्वे, रोदनं नन्दनाऽन्वहम् ॥९॥ सुतः 545445445 १२
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy