SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ * ****** कोशावेश्या निकेतने ॥१२९ ॥ सूरिस्तमुपयोगेन, योग्यं ज्ञात्वाऽन्वमन्यत ॥ सर्वेऽप्यऽङ्गीकृतस्थाना-न्यऽगमन्मुनयस्ततः ॥ १३० ॥ शान्तान् जितेन्द्रियान् घोर-तपोनिष्ठानिरीक्ष्य तान् ॥ शान्तिं प्रापुस्त्रयोऽप्येते, सिंहसारपट्टिकाः ॥ १३१ ॥ अथ श्रीस्थूलभद्रोऽपि, कोशासदनमासदत् ॥ कोशाऽपि प्रमदोत्सर्पि-रोमहर्षा तमभ्यगात् ॥ १३२ ॥ अयं परीषहोद्विग्नो, भग्नः संयमवीवधात् ॥ आगान्नूनं तदद्यापि, दैवं जागर्ति मामकम् ॥ १३३ ॥ चिन्तयन्तीति साऽवोच-द्वाचा पीयूषकुल्यया ॥ खागतं भवतः खामिन् ! कामधिक्कारिरूप हे !॥ १३४ ॥ अद्य चिन्तामणिलब्धः, फलितोऽद्य सुरद्रुमः ॥ अद्य कामगवी प्राप्ता, नाथ ! त्वयि समागते ॥ १३५ ॥ अद्यान्तरायापगमात्, PIपुण्यं प्रादुरभून्मम ॥ दिष्ट्या पीयूषवृष्ट्या , यत्प्राप्तं तव दर्शनम् ॥ १३६ ॥ अथ प्रसद्य सद्यो मां, समादिश करोमि किम् ? ॥ सर्वमेतत्तवैवास्ति, वित्तं चित्तं वपुर्यहम् ॥ १३७ ॥ ततः श्रीस्थूलभद्रर्षि-भगवानेवमब्रवीत् ॥ चित्रशालामिमां देहि, स्थातुं मासचतुष्टयम् ॥ १३८ ॥ गृह्यतामिति साऽप्युक्त्वा, सजयित्वा च तां ददौ ॥ भगवान स्थलभद्रोऽपि, तस्थौ तत्र समाहितः ॥ १३९ ॥ कोशादत्तं षड्रसाढ्य-माहारमुपभुज्य च ॥ प्रणिधानं दधौ साधुः, साधुधर्माब्जषट्पदः ॥ १४०॥ रूपलावण्यकोशोऽथ, कोशा कौशलशेवधिः॥ शृङ्गारागारशृङ्गार-धराऽगान्मुनिस|न्निधौ ॥ १४१॥ कटाक्षलक्षयन्ती तं, मुनिं स्मरशरोपमैः॥ हावैमनोगतं भाव-मुद्वमंती मनोहरैः ॥ १४२ ॥ उत्त|रीययथास्थान-स्थापनव्याजतो मुहुः ॥ व्यञ्जयन्ती स्तनो स्तब्धी, खसौन्दर्यमदादिव ॥१४३॥ सल्लावण्यसुधा * * **
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy