________________
मूलम् - हत्थागया इमे कामा, कालिआ जे अणागया । को जाणइ परे लोए, अत्थि वा नत्थि वा पुणो॥६॥
व्याख्या - हस्तागताः स्वाधीनतया हस्तप्राप्ता इमे प्रत्यक्षाः कामाः शब्दाद्याः, कालिका अनिश्चितकालान्तरप्राप्तयो ये अनागता भाविभवसत्काः, कथं पुनरमी अनिश्चितलाभाः ? इत्याह- क इत्यत्र पुनः शब्दस्य व्यवहितस्य सम्बन्धात्कः पुनर्जानाति ? नैव कश्चिदित्यर्थः । यथा परलोकोऽस्ति वा ? नास्ति वा ? ततः सन्दिग्धे परलोके कः प्रत्यक्षान् कामान् विहाय कालिककामार्थं यतेतेति तस्याभिप्राय इति सूत्रार्थः ॥ ६ ॥ कश्चित्तु ज्ञातपरलोकोपि कामांस्त्यतुमशक्त इदमाह -
मूलम् --जणेण सद्धिं होक्खामि, इइ वाले पग भइ । कामभोगाणु राएणं, केसं संपडिवज्जइ ॥ ७ ॥
व्याख्या - जनेन लोकेन सार्द्ध सह भविष्यामि, अयं भावः, बहुर्जनो भोगासङ्गी तदहमपि तद्गतिं गमिष्यामि ! न हि इयान् जनो मूढ इत्यमुना प्रकारेण बालोऽज्ञः प्रगल्भते धार्श्वमवलम्बते । अलीकवाचालतया स्वयं नष्टः परानपि नाशयति । न च किम्बहुनापि जनेनोन्मार्गप्रस्थितेनेति चिन्तयति ! स चैवं कामभोगानुरागेण क्लेशमिह परत्र च सम्प्रतिपद्यते प्राप्नोतीति सूत्रार्थः ॥ ७ ॥ यथा चायं क्लेशं प्राप्नोति तथा प्राह
मूलम् -- तओ से दंडं समारभइ, तसेसु थावरेसु अ । अट्टाए व अणट्टाए, भूअग्गामं विहिंसइ ॥८॥ व्याख्या - ततः कामभोगानुरागात्स धृष्टो दण्डं मनोदण्डादिकं समारभते प्रवर्त्तयति, त्रसेषु द्वीन्द्रियादिषु,