SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ 56 उत्तराध्ययन व्याख्या-तत्रेति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये इदं वक्ष्यमाणं प्रथम स्थानं महावीरेण चरम-13 पञ्चममध्य ता, तत्रैको महाप्रज्ञ इति सामान्योक्तेरभिव्यक्तिनिमित्तमिदं "देसिअं" प्ररूपितं। किंतदित्याह-कामेषु इच्छा॥१६७॥ यनम् (५) मदनात्मकेषु गृद्धोऽभिकांक्षावान् कामगृद्धः, यथेत्युपदर्शनार्थ, बाल उक्तरूपो भृशमत्यर्थ ऋराणि रौद्राणि प्राणि-1 व्यपरोपणादीनि कर्माणीति शेषः, “कुवइत्ति" करोति शक्तौ सत्यां, अशक्तौ तु तन्दुलमत्स्यवन्मनसापि करोति।। तानि च कृत्वा प्रक्रमादकाम एव म्रियते इति सूत्रार्थः ॥ ४ ॥ इदमेव स्पष्टयति मूलम्-जे गिद्धे कामभोएसु, एगे कूडाय गच्छइ । न मे दिट्टे परे लोए, चक्खुदिट्टा इमा रई ॥५॥ II व्याख्या–य इत्यनिर्दिष्टनामा गृद्धो लम्पटः, कामौ च शब्दरूपाख्यौ, भोगाश्च स्पर्शरसगन्धाह्वाः, कामभोगास्तेषु । एकः कश्चिदतिक्रूरकर्मा कूटाय गच्छति । तत्र कूटं द्रव्यतो मृगादिबन्धनं, भावतो मिथ्याभाषणादि, तस्मै प्रवर्तते | इत्यर्थः । स हि मांसादिलुब्धतया मृगादिबन्धनान्यारभते, मिथ्याभाषणादीनि च सेवते, प्रेरितश्च कैश्चिद्वक्ति, “न मे" इति, न मया दृष्टः परलोको भूतभाविजन्मात्मकः, कदाचिद्विषयरतिरपि तादृश्येव स्थादित्याह, चक्षुषा । दृष्टा चक्षुदृष्टा, इयं रतिः कामजनिता चित्तप्रहात्तिः तत्कथं दृष्टत्यागाददृष्टप्रार्थनयात्मानं वञ्चये? इति तस्याशय ॥१ इति सूत्रार्थः ॥ ५॥ पुनस्तदाशयमेव व्यञ्जयति (१) चित्तप्रसत्तिः ॥१६७॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy