SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ मलम्--बालाणं अकामं तु, मरणं असई भवे। पंडिआणं सकामं तु, उक्कोसेणं सहं भवे ॥३॥ व्याख्या-बाला इव बालाः सदसद्विवेकविकलास्तेषां अकामं, 'तुत्ति' तुशब्दस्य एवकारार्थत्वादकाममेव मरणमसकृद्वारंवारं भवेत्ते हि विषयाभिष्वङ्गान्मरणमनिच्छन्त एव नियन्ते, तत एव च भवाटवीमन्तो भूयो भूयस्तदेव मरणमासादयन्ति, पण्डितानां चारित्रवतां सह कामेनाभिलाषेण वर्तते इति सकामं सकाममिव सकामं, सकामत्वञ्च मरणागमे त्रासाभावात् , तदभावश्च तादृशां मरणस्योत्सवभूतत्वात् । यदाहु:-"सञ्चिततपोधनानां, नियं व्रतनियमसंयमरतानाम् ॥ उत्सवभूतं मन्ये, मरणमनपराधवृत्तीनाम् ॥ १॥" न तु परमार्थतस्तेषां मरणं प्रति सकामत्वं, मरणाभिलापस्य निषिद्धत्वादुक्तं हि-"मा मा हु विचिंतेजा, जीवामि चिरं मरामि अलहुंति । जइ इच्छसि तरिउं जे, संसारमहोअहिमपारं ॥१॥" तु शब्दः पूर्वापेक्षया विशेषद्योतकः, तच मरणं "उकोसेणंति" उत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि संयमजीवितं दीर्घ स्पृहयेयुरपि, मुक्तिप्राप्तिरितः स्यादिति । केवलिनस्तु कृतकृत्यतया तदपि नेच्छन्ति आस्तां भवजीवितमिति तन्मरणस्यैवोत्कर्षेण सकामता । “सइंति" सकृदेकवारमेव भवेत् , जघन्येन तु शेषचारित्रिणां सप्ताष्ट वा वारान् स्यादित्याकूतमिति सूत्रार्थः ॥ ३॥ अथानयोर्द्वयोः स्थानयोराचं स्थानमाहमूलम्-तथिमं पढमं ठाणं, महावीरेण देसि । कामगिद्धे जहा बाले, भिसं कूराइं कुबई ॥ ४ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy