SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन स्समरणे, वरं खु धीरत्तणे मरणं ॥ १॥ संसाररंगमझे, धीवलसन्नद्धबद्धकच्छो उ । हतूण मोहमल्लं, हरामि पञ्चममध्य आराहणपडागं ॥२॥” इत्यादि ध्यात्वा धीरैः पण्डितमरणमुपादेयमन्यत्तु हेयमित्यलं प्रसङ्गेन। साम्प्रतं सूत्रमनुगम्यते।। |यनम् (५) ॥१६६॥ मूलम्-अण्णवंसि महोहंसी, एगे तिण्णे दुरुत्तरे । तत्थ एगे महापण्णे, इमं पण्हमुदाहरे ॥१॥ GI व्याख्या-अर्णव इवार्णवोऽदृष्टपरपारतया भव एव तस्मिन् , महानोघः प्रवाहो भवपरम्परात्मको यत्र स महौषः तस्मिन् , एको रागद्वेषादिसहभावरहितः, तीर्ण इव तीर्णः तीरप्राप्त इत्यर्थः । दुरुत्तरे दुःखेनोत्तरितुं शक्ये भवार्णवे एव, तत्र सदेवमनुजासुरायां पर्षदि, एकस्तीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतितया अद्वितीयः, स हि एकदा एक एव भवतीत्येवमुक्तं, महती निरावरणतया अपरिमाणा प्रज्ञा केवलज्ञानलक्षणा यस्य स तथा, इममनन्तरवक्ष्यमाणं प्रष्टव्यार्थरूपमुदाहरेदुदाहृतवानिति सूत्रार्थः ॥ १॥ तथा हिमूलम्-सन्तिमे अ दुवेठाणा, अक्खाया मारणंतिआ।अकाममरणं चेव, सकाममरणं तहा ॥२॥ | व्याख्या-“संतित्ति” वचनव्यत्ययात् स्तो विद्यते, इमे प्रत्यक्षे, चः पूरणे, द्वे द्विसंख्ये, तिष्ठन्त्यनयोजन्तव इति | ॥१६६॥ स्थाने, आख्याते, प्राक्तनतीर्थकरैरपिकथिते । मरणमेवान्तो निजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मारणान्तिके, ते एव नामतः प्रकाशयति, अकाममरणं वक्ष्यमाणलक्षणं, चः समुचये, एवेति पूत्तौ, सकाममरणं तथा वक्ष्यमाणमेवेति सूत्रार्थः ॥२॥ केषां पुनरिमे ? कियद्वारं ? चेत्याह
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy