SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१६८॥ स्थावरेषु च पृथिव्यादिषु, अर्थाय वित्तप्राप्त्यादिकार्याय, अनर्थाय वा यदात्मनो मित्रादेर्वा नोपयुज्यते तस्मै | पञ्चममध्यनिरर्थकमित्यर्थः । ननु निरर्थकमपि किं कोपि दण्डमारभते ? आरभत एव तादृशपशुपालवत् ॥ यनम् (५) । तथाहि कोप्यजापालः, संनिवेशे क्वचिद्वसन् ॥ अजाश्चारयितुं नित्य-मटतिस्म वनान्तरे ॥ १ ॥ अजाबजे । च मध्याह्ने, न्यग्रोधद्रुममाश्रिते ॥ तस्य छायामुपाश्रित्य, सोप्युत्तानतयाऽखपीत् ॥ २॥ लघुना धनुषा मुक्तै-बंद-| रास्थिभिरन्वहम् ॥ वटस्य तस्य पत्राणि, छिद्रयामास चासकृत् ॥ ३॥ क्रीडापरेण तेनैवं, प्रायो विद्धाखिलच्छदः॥ न्यग्रोधो निर्ममे नित्या-भ्यासाद्वा किं न साध्यते ? ॥४॥ तत्र चैकोन्यदा भ्राम्य-नागतो गोत्रिविद्रुतः ॥ भूप| भूस्तं तथाभूतं, वटं वीक्ष्य विसिष्मिये ! ॥५॥ केनैवमस्य पर्णानि, छिद्रितान्यखिलान्यपि ? ॥ इत्यपृच्छच तमजापालं भूपालनन्दनः ॥ ६ ॥ सोऽवादीक्रीडयैतानि, छिद्रितानि मया सखे! ॥ ततस्तस्मै बहु द्रव्यं, दत्वा राजाङ्गजो जमौ ॥ ७॥ मदुक्तमर्त्यनेत्रे त्वं, यदि स्फोटयितुं स्फुटम् ॥ प्रभूयसे तदा कार्य, समग्रं मम सिद्ध्यति ॥८॥स प्रोचे चेत्स पुरुषः, पार्थवर्ती भवेन्मम ॥ तदाहं भवतः कार्य, कतुं शक्नोमि नान्यथा ॥९॥ पशुपालं ततो नीत्वा, पुरमध्ये नृपात्मजः ॥ छन्नमस्थापयद्राज-मार्गासन्ने निकेतने ॥ १० ॥ दायादञ्च निजं ॥१६॥ राज-पाटिकायै विनिर्गतम् ॥ तस्यादर्शयदस्याशु, नेत्रे स्फोव्ये इति ब्रवन् ॥ ११॥ सोपि चापविमुक्ताभ्यां, | गोलिकाभ्यां तदीक्षणे ॥ पक्कस्फोटकवत्सद्यो-ऽस्फोटयत्वयमस्फुटः ॥ १२ ॥ ततः सम्प्राप्तसाम्राज्य-स्तमाहूय स
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy