SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ १२ सङ्कल्पेनोत्तरोत्तरभोगाभिलाषरूपेण विकल्पेन विहन्यसे वाध्यसे, अनन्तत्वादेवंविधसङ्कल्पस्य । परं यो विवेकी स प्राप्तान् कामानप्राप्तकामाकांक्षया न त्यजेद्विवेकी च भवानिति सूत्रार्थः ॥ ५१ ॥ मूलम् - एअमहं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ५२ ॥ | मूलम् —सलं कामा विसं कामा, कामा आसी विसोवमा । कामे पत्थेमाणा, अकामा जंति दुग्गई ॥ ५३ ॥ व्याख्या - शल्यमिव शल्यं कामाः शब्दादयः, विषमिव विषं कामाः, कामा आशीविषोपमाः, आशीविषः | सर्पस्तदुपमाः । किञ्च कामान् प्रार्थयमाना अपेर्गम्यत्वात् प्रार्थयमाना अपि अकामा इष्यमाणकामाभावाद्यान्ति दुर्गतिं, ततः कथं तत्परिहार आश्चर्य ? असद्धोगप्रार्थनमपि यद्भवता सम्भावितं तदप्ययुक्तं, मुमुक्षूणां क्वचिदपि कांक्षाया अभावात् । उक्तं हि - "मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः" इति ॥ ५३ ॥ कथं पुनः कामान् प्रार्थयमाना दुर्गतिं यान्तीत्याह मूलम् - अहे वयइ कोहेणं, माणेणं अहमा गई। माया गइपडिग्घाओ, लोहाओ दुहओ भयं ॥ ५४ ॥ व्याख्या - अधो नरकगतौ व्रजति क्रोधेन, मानेन अधमा गतिः, 'मायत्ति' सुब्व्यत्ययान्मायया गतेः प्रस्तावात्सुगतेः प्रतिघातो विनाशो गतिप्रतिघातो, लोभात् 'दुहओत्ति' द्विप्रकारमैहिकं पारत्रिकं च भयं स्यादिति सर्वत्र *%++ नवमाध्ययनम् गा५२-५४
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy