SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वादशम. ध्ययनम् ॥२६४॥ गा ९-१० मूलम्-समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ। परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इह मागओम्हि ॥ ९॥ व्याख्या-श्रमणः साधुरहं, संयतः सम्यगुपरतः पापव्यापारेभ्य इति शेषः, अत एव ब्रह्मचारी, तथा विरतो | निवृत्तो धनपचनपरिग्रहात्, तत्र धनं चतुष्पदादि, पचनमाहारपाकः, परिग्रहो द्रव्यादिमूर्छा, अत एव परस्मै परार्थ प्रवृत्तं निष्पन्नं परप्रवृत्तं, तुशब्दोऽवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थ निष्पन्नस्य, भिक्षाकाले अन्नस्य अशनस्य 'अत्ति' अर्थाय इह यज्ञपाटे आगतोस्मीति सूत्रार्थः ॥९॥ अथ ते कदाचिदित्यं ब्रूयुर्यन्नात्र किञ्चित्क|स्मैचिद्दीयत इत्याहमूलम्-विअरिजइ खजइ भुजइ अ, अन्नं पभूअं भवयाणमेअं। जाणाह मे जायणजीविणोत्ति, सेसावसेसं लहऊ तवस्सी ॥१०॥ व्याख्या-वितीर्यते दीयते दीनादिभ्यः, खाद्यते खण्डखाद्यादि, भुज्यते च भक्तसूपादि, अन्नमशनं, प्रभूतं भूरि, भवतां युष्माकं सम्बन्धि, एतत्प्रत्यक्षं । तथा जानीतावगच्छत 'मेत्ति' मां 'जायणजीविणोत्ति' याचनजीवितं याचनेन जीवनशीलं, सूत्रे च द्वितीयार्थे षष्ठी, इत्यतो हेतोः शेषावशेषमुद्धरितादप्युद्धरितं, अन्तप्रान्तमित्यर्थः, ॥२६४॥ १२
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy