SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ गा८ व्याख्या-कतरस्त्वं [ पाठान्तरे च 'को रे !' त्वं ? तत्राधिक्षेपे 'रे' शब्दः ] 'इअत्ति' इति अमुना प्रकारेणादर्शनी- द्वादशमयोऽद्रष्टव्यः, 'का एवत्ति' कया वा 'आसाइहमागओसित्ति' प्राकृतत्वादेकारलोपो मकारश्चागमिकस्तत आशया ध्ययनम् वाञ्छया इह यज्ञपाटे आगतः प्राप्तोसि वर्तसे ? अवमचेलक ! पांशुपिशाचभूत ! पुनरनयोग्रहणमत्यन्तनिन्दासूचकं, गच्छ ब्रज ‘खलाहित्ति' देशीभाषया अपसर अस्मद्दष्टिपथादिति शेषः । किमिह स्थितोसि त्वं? नैवेह त्वया स्थेयमिति सूत्रार्थः ॥७॥ एवमधिक्षिप्ते साधौ शान्ततया किञ्चिदजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यचके तदाहमूलम्-जक्खो तहिं तिंदुअरुक्खवासी, अणुकंपओ तस्स महामुणिस्स । पच्छायइत्ता निअयं सरीरं, इमाई वयणाई उदाहरित्था ॥ ८॥ ___ व्याख्या-यक्षः 'तहिति' तस्मिन्नवसरे इति शेषः, तिन्दुकवृक्षवासी, तिन्दुकवनमध्ये हि महांस्तिन्दुकवृक्षस्तत्रासौ | वसति, तस्यैव च तरोरधस्तात्तचैत्यं, तत्र स यतिस्तिष्ठतीति वृद्धाः । अनुकम्पकोऽनुकूलप्रवृत्तिः, कस्सेत्साह- तस्य | हरिकेशबलस्य महामुनेः, प्रच्छाद्य आवृत्य निजकं खकीयं शरीरं मुनिदेह एव प्रविश्य खयमनुपलक्ष्यः सन्नित्यर्थः, इमानि वक्ष्यमाणानि वचनानि 'उदाहरित्थत्ति' उदाहृतवानिति सूत्रार्थः॥८॥ तान्येवाह
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy