SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ २६३ ॥ ३ १२ 6 तस्मात्पुत्रमुखं दृष्ट्वा, पश्चात्वर्ग गमिष्यति ॥ २ ॥ इत्यादिकथनादत एव वाला वालक्रीडाकल्पेष्वग्निहोत्रादिषु प्रवृत्तत्वात् इदं वक्ष्यमाणं वचनं 'अब्बवित्ति' अब्रुवन्निति सूत्रार्थः ॥ ५ ॥ किं तदित्याह - मूलम् — कयरे आगच्छइ दित्तरुवे, काले विकराले फोक्कनासे । ओमचेल सुपिसायभूए, संकरदूसं परिहरिअ कंठे ॥ ६ ॥ व्याख्या -- ' कयरेत्ति' कतरः, एकारः प्राकृतत्वात्, आगच्छति, दीप्तरूपो बीभत्साकारः, कालो वर्णतः, विक| रालो दन्तुरत्वादिना भीषणः, 'फोक्कत्ति' देशीपदं, ततश्च फोक्का अग्रे स्थूला उन्नता च नासाऽस्येति फोक्कनासः । अवमचेलो निकृष्टचीवरः, पांशुना रेणुना पिशाच इव भूतो जातः पांशुपिशाचभूतः, पिशाचो हि लोके दीर्घश्मश्रुनखरोमा:- पांशुगुण्डितश्च रूढस्ततः सोपि निष्प्रतिकर्मतया रजोदिग्धतया चैवमुच्यते । तथा 'संकरदूसंति' संकरस्तृणभस्म गोमयादिराशिरुत्कुरुडिकेतियावत् तस्य दूष्यं वस्त्रं संकरदूष्यं तत्र हि यदतीवनिकृष्टं निरुपयोगि स्यात्तदेव लोकैरुत्सृज्यते, ततस्तत्प्रायं वस्त्रं परिधृत्य निक्षिप्य कण्ठे गले । स हि अनिक्षिप्तोपधितया स्वमुपकरण - मादायैव भ्रमतीत्येवमुक्तमिति सूत्रार्थः ॥ ६ ॥ इत्थं दूरादागच्छन्नुक्तः, आसन्नं चैनं किमूचुरित्याह मूलम् — कयरे तुमं इअ अदंसणिजे, का एव आसा इह मागओसि । ओमचेगा पंसुपिसायभूआ, गच्छ खलाहि किमिह द्विओसि ? ॥ ७ ॥ द्वादशम ध्ययनम् (१२) गा ६-७ ॥ २६३ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy