SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ A HARRARY पोहार्थः । कुर्याद्विदध्यात् , कदाचिदपि परुषभाषणादिसमयेऽपीति सूत्रार्थः ॥ १७ ॥ अथ शुश्रूषणा विनयमाहमूलम्-ण पक्खओ ण पुरओ, णेव किच्चाण पिट्टओ। ण जुंजे ऊरुणा ऊरु, सयणे णो पडिस्सुणे॥१८॥ | व्याख्या-न पक्षतो दक्षिणादिपार्श्वमाश्रित्योपविशेदिति सर्वत्र गम्यं, तथोपवेशने हि तत्पंक्तिप्रवेशादात्मनोऽपि तत्साम्यदर्शनरूपोऽविनयः स्यात् , पाठनादि समये च गुरोरपि तन्मुखप्रेक्षणे वक्रावलोकनेन स्कन्धकन्धरादिवाधा भवेदिति । तथा न पुरतोऽग्रतः, तत्र हि वन्दारुलोकस्य गुरुमुखादर्शनादिना अप्रीतिः स्यादिति । तथा नैव कृत्यानां |कृतिकर्मार्हाणां गुरूणामित्यर्थः, पृष्ठतः पृष्ठदेशमाश्रित्य, तत्र द्वयोरपि मुखाप्रेक्षणेन न तादृशो रसः स्यादिति, तथा न युंज्यान्न संघट्टयेत् अतिसंवेशदेशोपवेशनादिना ऊरुणा आत्मीयेन ऊरं गुरुसंबंधिनं, तथाकरणेऽत्यन्ताविनयप्रसंगात् , उपलक्षणं चैतत् शेपांगस्पर्शत्यागस्य । तथा शयने शय्यायां शयित उपविष्टो वा न प्रतिशृणुयात् न खीकुर्याद्गुरुवाक्यमिति शेषः, अयं भावः-शय्यास्थितः शिष्यो गुरुणा कृत्यं प्रति प्रोक्तो न तत्र स्थित एव करोम्येवेदमित्यादि वदेत्, किन्तु गुरुवचःश्रवणानन्तरं तत्कालमेव कृतांजलिगुरुपार्श्वमागत्य पादपतनपूर्वमनुगृहीतोऽह|मिति मन्यमानो भगवनिच्छाम्यऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ १८ ॥ तथामूलम्–णेव पल्हत्थिअं कुजा, पक्खपिंडं व संजए। पाए पसारए वावि, ण चिट्टे गुरुणंतिए ॥ १९॥ व्याख्या-नैव पर्यस्तिकांजानुजंघोपरि वस्त्रवेष्टनरूपां कुर्यात् , पक्षपिण्डं वा बाहुद्वयेन कायपिण्डनात्मकं, संयतः NANAGAR
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy