SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ नवमाध्य यनम् गा१२-१४ el व्याख्या-एनमर्थं निशम्य हेतुकारणयोः पूर्वोक्तयोश्वोदितोऽसिद्धे भवदुक्ते हेतुकारणे इत्युपपत्त्या प्रेरितो हेतु कारणचोदितः, ततो नमि राजर्षि देवेन्द्र इदमब्रवीदिति सूत्रार्थः ॥ ११ ॥ ३ मूलम्-एस अग्गी अ वाऊ अ, एअं डज्झइ मंदिरं । भयवं अंतेउरं तेणं, कीस णं नाव पिक्खह १२ __ व्याख्या-एष प्रत्यक्षोऽग्निश्च वायुश्च एतत्प्रत्यक्षं दह्यते मन्दिरं गृहं तवेति शेषः, अग्निवायू च तदा शक एवादर्शयदिति वृद्धाः, हे भगवन् ! 'अंतेउरंतेणंति' अन्तःपुराभिमुखं 'कीसत्ति' कस्मात् 'णं' वाक्यालंकारे नावप्रेक्षसे नावलोकसे ? यद्यदात्मीयं तत्तत्रातव्यं, आत्मीयञ्चेदं तवान्तःपुरादीति सूत्रार्थः ॥ १२ ॥ | मूलम्-एअमह निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १३ ॥ व्याख्या-स्पष्टं नवरं हेतुकारणचर्चा इहोत्तरत्र च बृहट्टीकातोवसेयेति ॥ १३ ॥ मूलम्--सुहं वसामो जीवामो, जेसिं मो नत्थि किंच णं । मिहिलाए डज्झमाणीए, न मे डज्झइ किंच णं ॥ १४ ॥ व्याख्या-सुखं यथा स्यादेवं वसामस्तिष्ठामः जीवामः प्राणान् धारयामः येषां 'मोत्ति' अस्माकं नास्ति किंचन वस्तुजातं यतः-“एकोहं न च मे कश्चित् , खः परो वापि विद्यते । यदेको जायते जन्तु-म्रियते चैक एव हि॥१॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy