SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ दशमाध्ययनम् गा ३७ व्याख्या-बुद्धो ज्ञातहेयादिविभागः, परिनिर्वृतः कषायाग्निशान्त्या शीतिभूतः सन् चरेरासेवख संयममिति शेषः, 'गामत्ति विभक्तिलोपात् ग्रामे गतः स्थितो नगरे वा उपलक्षणत्वादरण्यादिषु वा सर्वत्रापि नीराग इति भावः, संयतः सम्यकपापस्थानेभ्यो निवृत्तः शान्तिमार्ग मुक्तिमागे च शब्दो भिन्नक्रमस्ततो बृहयेश्च भव्यजनेभ्य उपदेशनादृद्धिं नयेः, ततः समयमपि गौतम मा प्रमादीरिति सूत्रार्थः ॥३६॥ इत्थं जिनोक्तमाकर्ण्य गौतमो यदकात्तिदाह मूलम्-बुद्धस्स निसम्म भासिअं, सुकहिअमट्टपओवसोहिअं। रागं दोसं च छिंदिआ, सिद्धिं गई गए भयवं गोयमेत्ति बेमि ॥ ३७॥ व्याख्या-बुद्धस्य केवलालोकालोकितलोकालोकखरूपस्य श्रीवर्धमानखामिनो निशम्याकर्ण्य भाषितं वचः, सुष्ठ शोभनेन उपमादर्शनादिप्रकारेण कथितं, अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, रागद्वेषं च छित्त्वा | सिद्धिं गतिं गतो भगवान् गौतमः प्रथमगणधर इति सूत्रार्थः ॥ ३७ ॥ इति ब्रवीमीति प्राग्वत् ॥१०॥ അയാളുമായ കാറ്റായ് 1 इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-टि 2 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ दशमाध्ययनं सम्पूर्णम् ॥ १०॥ मान्छन्
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy