SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ | मेवैकं स्यादित्याह-बहुवेदना भूरिशारीरपीडाः, अमानुषीषु नरकतिर्यगाभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु योनिषु विनिहन्यन्ते, विशेषेण निपात्यन्ते, अर्थात्कर्मभिः न तु ताभ्य उत्तारं लभन्ते प्राणिनो जीवास्ततो दुर्लभमेव मानवत्वमिति सूत्रार्थः ॥६॥ कथं तर्हि तदवाप्तिरित्याहमूलम्-कम्माणं तु पहाणाए, आणुपुत्री कयाइ उ॥जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥७॥ व्याख्या-कर्मणां तु पुनर्नरकगतिप्रतिवन्धकानामनन्तानुबन्ध्यादीनां ‘पहाणाएत्ति' प्रहाण्या अपगमेन, कथं प्रहाणिरित्याह-आनुपूर्व्या क्रमेण, न तु झगित्येव, अत एवाह-'कयाइउत्ति' 'तु' शब्द एवकारार्थे, ततः कदाचि| देव न सर्वदा जीवाः प्राणिनः शुद्धिं क्लिष्टकर्मापगमात्मिकां, अनुप्राप्ताः सम्प्राप्ताः आददते खीकुर्वन्ति मनुष्यतां मनुजजन्म, विशिष्टशुद्धिनिबन्धनैस्तनुकषायत्वादिभिरेव तदायुर्वन्धादिति सूत्रार्थः ॥ ७॥ एवं कथञ्चिन्मानुष्ये प्राप्तेऽपि श्रुतिदुर्लभेत्याहमूलम्-माणुस्सं विग्गहं लड़े, सुइ धम्मस्स दुल्लहा ॥ जं सुच्चा पडिवजंति, तवं खंतिमहिंसयं ॥८॥ व्याख्या-'माणुस्संति' सूत्रत्वान्मानुष्यकं मनुष्यभवसम्बन्धिनं विग्रहं देहं, 'लढुंति' लब्ध्वाऽपि, अपेर्गम्यत्वात् , श्रुतिः श्रवणं, धर्मस्य दुर्लभा दुष्प्रापा पूर्वोक्तालस्यादिहेतुभिः, स च धर्मः "मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराहे ॥ द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥१॥” इत्यादिवौद्धा.
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy