SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ - - उत्तराध्ययन ॥२२९॥ -* ललिते च ते सविलासतया चपले चञ्चलतया ललितचपले तादृशे कुण्डले यस्य स ललितचपलकुण्डलः सचासौ नवमाध्यकिरीटी च मुकुटवान् ललितचपलकुण्डलकिरीटीति सूत्रार्थः ॥ ६०॥ शक्रेणैवं स्तूयमानः स मुनिः किमुत्कर्ष यनम् (९) व्यधादुत नेत्याहमूलम्-नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ। चंइऊण गेहं वइदेही,सामण्णे पजुवडिओ ॥६॥ व्याख्या-नमिर्नमयति खतत्त्वभावनया प्रबं करोत्यात्मानं खं नतूत्सेकं नयति । उक्तञ्च-"संतगुणकित्तणेणवि* पुरिसा लजंति जे महासत्ता ॥ इअरा पुण अलिअपसंसणेवि हिअए न मायंति ॥१॥" किम्भूतो नमिः ? साक्षाप्रत्यक्षीभूय शक्रेण चोदितः प्रेरितः त्यक्त्वा गेहं 'वइदेहित्ति' सूत्रत्वाद्विदेही विदेहदेशाधीशः श्रामण्ये पर्युपस्थितः उद्यतो न तु तत्प्रेरणयापि धर्माद्विच्युतोऽभूदिति भाव इति सूत्रार्थः ॥६१॥ अथामुष्य मुनिमुख्यस्य दृष्टान्तेनोपदेशमाहमूलम्-एवं करिंति संबुद्धा, पंडिआ पविअक्खणा । ॥२२९॥ विणिअति भोगेसु, जहा से नमी रायरिसित्ति बेमि ॥ ६२ ॥ व्याख्या-एवमिति यथामुना नमिनाम्ना मुनिना निश्चलत्वं कृतं तथाऽन्येपि कुर्वन्ति, कीदृशाः ? संबुद्धा अव-| गततत्वाः, पण्डिता निश्चितशास्त्रार्थाः, प्रविचक्षणा अभ्यासातिशयाक्रियाम्प्रति प्रवीणाः, तादृशाश्च सन्तो विनिवर्तन्ते
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy