SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ रित्रम् उपरमन्ते 'भोगेसुत्ति' भोगेभ्यो यथा स नमी राजर्पिस्तेभ्यो निवृत्त इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ ६२ ॥|| नवमाध्यइति समाप्तोऽध्ययनसूत्रार्थः, अथ प्रक्रान्तशेष प्रस्तूयते, तच्चेदं यनम् नग्गतिचAL अथ नग्गतिसंज्ञस्य, सम्बुद्धस्याम्रपादपात् ॥ तुर्यप्रत्येकबुद्धस्य, कथां वक्ष्यामि तद्यथा ॥ १॥ अत्रैव भरतक्षेत्रे, देशे गान्धारसंज्ञके ॥ श्रीपाण्डुवर्धनपुरे, राजा सिंहरथोऽभवत् ॥ २॥ अन्यदा तस्य भूभर्तु-विश्वावुत्तरापथात् ॥ १-१३ उपायने समायातौ, शक्रवाजिविजित्वरौ ॥३॥ तयोर्मध्ये बभूवैक-स्तुरङ्गो वक्रशिक्षितः ॥ तमारोहन्नृपो दैवाट्वितीयं तु तदङ्गजः ॥ ४॥ ततः सैन्यान्वितो राजा, निर्गत्य नगरादहिः ॥ वाहकेलीगतो वाह-वाहनार्थ प्रचक्रमे ॥५॥ प्रकृष्टां तद्गतिं द्रष्टुं, कशया प्राहरच तम् ॥ ततः स तुरगः सिन्धु-पूरादप्यचलद्रुतम् ॥ ६ ॥ तं रक्षितुं नृपो वल्गा-माचकर्ष यथा यथा ॥ तथा तथा हयो जज्ञे, जवनः पवनादपि ॥७॥ गच्छन्नेवं योजनानि, द्वादशातिगतो हयः ॥ तमरण्येऽनयन्नद्याः, पूरस्तरुमिवोदधौ ॥८॥ आकृष्याकृष्य निर्विण्णो, वल्गां तत्रामुचन्नृपः ॥ तुरङ्गमोपि तत्रैव, तस्थौ तत्क्षणमात्मना ॥९॥ ततस्तं वाजिनं ज्ञात्वा, भूशको वक्रशिक्षितम् ॥ बवा क्वापि द्रुमे भ्राम्यन् , प्राणवृत्तिं व्यधात्फलैः॥१०॥रात्रिवासाय चारूढो, गिरिमेकं महीपतिः॥ ददर्शकं दर्शनीय, प्रासादं सप्तभूमिकम् |॥ ११॥ तस्य मध्ये प्रविष्टश्चा-द्राक्षीदेकां मृगेक्षणाम् ॥ रूपलावण्यतारुण्य-तिरस्कृतरतिश्रियम् ॥ १२॥ ससम्भ्रमं समुत्थाय, प्रमोदभरमेदुरा ॥ ददौ साप्यासनं तस्मै, सोऽपि तस्मिन्नुपाविशत् ॥ १३ ॥ मिथस्तावन्वरज्येतां,
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy