SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्ययनम् (२) ॥३२॥ संयमम् ॥ ४५ ॥ तुच्छानां मर्त्यसौख्याना-मेतेषां हेतवे कृतिन् !॥ अनन्तदुःखदामा स्म-स्वीकार्नरकव्यथाः॥४६॥ सोऽशंसन्नैव शक्तोऽस्मि, पापोऽहं व्रतपालने ! ॥ ततो वदसि चेन्मातः!, करोम्यनशनं तदा ॥४७॥ तुष्टा भद्राऽभ्यधाद्भद्र !, तवैतदपि साम्प्रतम् ॥ नत्वनन्तभवभ्रान्ति-निमित्तं व्रतभञ्जनम् ॥४८॥ यदाहुः-“वरमग्गिमि पवेसो, वरं विसुद्धण कम्मुणा मरणं ॥ मा गहिअवयभंगो, मा जीअं खलिअसीलस्स ॥४९॥" ततः स योगं सा|वद्यं, प्रत्याख्याय महाशयः ॥ क्षमयित्वाऽखिलान् जन्तू-निन्दित्वा दुरितं निजम् ॥ ५० ॥ श्रित्वा चत्वारि शरणान्यादायाऽनशनं तथा ॥ गत्वा वहिर्दिनेशांशु-तापितामश्रयच्छिलाम् ॥ ५१॥ [ युग्मम् ] धर्मध्यानी पादपोपगमनं प्रतिपालयन् ॥ तामुष्णवेदनां सम्यक्, सहमानोऽतिदारुणाम् ॥ ५२ ॥ स साधुः सुकुमाराङ्गः, स्मरन् पञ्च नमस्क्रियाः॥ व्यलीयत मुहूर्तेन, तत्र म्रक्षणपिण्डवत् ॥५३॥ [युग्मम् ] इत्थमुष्णमधिसह्य स पश्चा- इत्तनन्दनमुनिस्त्रिदशोऽभूत् ॥ एवमेतदपरैरपि सम्यग् , मर्षणीयमृषिभिर्निरमः ॥५४॥ इत्युष्णपरीषहे अरहन्नकमुनिकथा ॥४॥ ___अथ ग्रीष्मे उष्णं तदनु च वर्षासु दंशमशकाः स्युरिति तत्परीषहमाह मूलम्-पुट्ठो अ दंसमसएहिं, समरेव महामुणी॥णागो संगामसीसे वा, सूरो अभिहणे परं ॥१०॥ I व्याख्या-स्पृष्टोऽभिद्रुतः, चः पूत्तौं, दंशमशकैरुपलक्षणत्वाचूकामत्कुणादिभिश्च ‘समरेवत्ति' सम एव शत्रुमित्रेषु तुल्यचित्त एव, प्राकृतत्वाद्विसर्जनीयस्य रेफः, महामुनिः 'णागो सङ्गामसीसे वत्ति' नाग इव करीव, वाशब्दस्येवार्थ ॥ ३२॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy