SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ | दीक्षा - माददे विधिपूर्वकम् ॥ १०० ॥ श्रीयकाय ददौ मन्त्री - मुद्रां नन्दनृपस्ततः ॥ सोऽपि चक्रे राज्यचिन्तां धीनिधिविनयी नयी ॥ १०१ ॥ भट्टो वररुचिः सोऽपि, सिषेवे भूपमन्वहम् ॥ कोशा खसारं भेजे चो- पकोशां तद्वशंवदः ॥ १०२ ॥ स्थूलभद्रे दृढप्रीतिः, कोशात्वन्यमियेष न ॥ स्थूलभद्रगुणान् किन्तु, सा सस्मार दिवानिशम् ॥ १०३ ॥ भ्रातुः प्रियेति तद्देहे, प्रत्यहं श्रीयको ययौ । तं च वीक्ष्योद्भवद्भूरि- दुःखपूरा रुरोद सा ॥ १०४ ॥ श्रीयकस्तां तदेत्याख्य - ब्रूहि भद्रे ! करोमि किम् ? ॥ असौ पापो वररुचि - मम तातमघातयत् ॥ १०५ ॥ श्रीस्थूलभद्रविरहं, चायमेवातनोत्तव ॥ अरुन्तुदविषादिग्ध - शल्यशल्यसहोदरम् ॥ १०६ ॥ तव खसारं तद्याव - दुपकोशां भजत्ययम् ॥ वैरनिर्यातनोपायं तावत्किञ्चिद्विचारय ॥ १०७ ॥ यदि चायं पिवेन्मद्यं, वैरशुद्धिस्तदा भवेत् ॥ तदादिश्योपकोशां त्वं, कारयामुं सुरापिवम् ॥ १०८ ॥ एवं देवरवाक्यं सा, खीचकार पणाङ्गना ॥ ऊचे च भगिनीं मद्य - रुचिं वररुचिं कुरु ॥ १०९ ॥ ततस्तं मद्यपं चक्रे, साप्युपायेन केनचित् ॥ नास्ति किञ्चनाकार्य, स्त्रीवशानां विदामपि ॥ ११० ॥ खैरं वररुचिर्भट्ठो, मद्यमद्यास्ति पायितः ॥ उपकोशेति कोशायै, प्रभातेऽज्ञापयत्ततः ॥ १११ ॥ कोशाऽपि तं तद्वृत्तान्तं, श्रीयकाय न्यवेदयत् ॥ तच्छ्रुत्वा श्रीयको प्युच्चै - स्तुष्टोऽगात् भूपपर्षदि ॥ ११२ ॥ शकटालगुणान् स्मारं, स्मारं नन्दनृपोऽन्यदा । इत्यूचे श्रीयकामात्य - मास्थानस्थः सगद्गदम् ॥ १०३ ॥ शकटालो महामन्त्री, ममाऽभूद्भूरिधीनिधिः ॥ इदं तेन विना स्थानं, शून्यवत्प्रतिभाति मे ! ॥ ११४ ॥ उवाच श्रीयकः स्वामि-न्निह किं कुर्महे ? वयम् ॥ सुरापायी वर %%%
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy