SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रति ॥ १६ ॥ अनांसि सर्पिःसम्पूर्णा-न्यादायान्येऽपि भूरयः ॥ गोदुहस्तरुणास्तेन, समं चेलुर्मदोत्कटाः ॥ १७॥ ६ तस्याभीरस्य शकटं, भद्रा खयमखेटयत् ॥ शकटानां खेटने सा, ह्यतीवनिपुणाऽभवत् ॥ १८ ॥ ततोऽन्ये गोदुह-8 स्त्यक्त-मार्गास्तस्या दिक्षया ॥ उत्पथे प्रेरयन् क्षिप्र-मनांसि खमनांसि च ॥ १९॥ स्मेरतद्वदनाम्भोज-भ्रमरीकृतदृष्टयः ॥ अखेटयन् खशकटां-स्तदीयशकटान्तिके ॥ २०॥ विश्वैककार्मणं तस्याः, पश्यन्तो रूपमद्भुतम् ॥ प्राप्नुवन्तः शरव्यत्वं, स्मरस्याकृष्टधन्वनः ! ॥ २१ ॥ यथातथा खेटयन्तः, शकटानऽखिलानऽपि ॥ सद्यस्तरुणगोपास्ते, भञ्जयामासुरुत्पथे ! ॥ २२॥ [युग्मम् ] ततः खिन्ना व्यधुस्तस्याः, संज्ञामशकटेति ते ॥ असावशकटातात, इति तजनकस्य च ॥ २३ ॥ तद्वीक्ष्य जातवैराग्य-स्तस्यास्तातो विवाह्य ताम् ॥ तस्यै दत्त्वा च सर्वखं, प्रात्राजीत्साधुसन्निधौ ॥ २४ ॥ स मुनि खगुरोः पार्थे, विधिपूर्वकमार्हतम् ॥ पठति स्म श्रुतं याव-दुत्तराध्ययनत्रयम् ॥ २५ ॥ चतुर्थाध्ययने तस्यो-द्दिष्टेऽसंखयसंज्ञके ॥ कर्मोदियाय तज्ज्ञाना-वरणं प्राग्भवार्जितम् ॥ २६ ॥ आचाम्लयुगलेन द्वौ, दिवसौ जग्मतुः परम् ॥ एकोऽप्याऽऽलापकस्तस्य, सोद्यमस्याऽपि नाऽगमत् ॥ २७ ॥ ततोऽवादीद्गुरुस्तं चेत् , प्रयत्नं कुर्वतोऽपि ते ॥ इदमध्ययनं नाया-त्यनुज्ञा क्रियते तदा ॥ २८ ॥ स प्रोचेऽध्ययनस्याऽस्य, खामिन् ! योगोस्ति कीदृशः? ॥ गुरुर्जगादाऽऽचाम्लानि, कार्याणि पठनावधि ॥ २९ ॥ ततः शिष्योऽभ्यधादस्या-नुज्ञया मेऽधुना कृतम् !॥ आचाम्लानि करिष्येऽहं, यावत्पठनमन्वहम् ! ॥ ३०॥ इत्युक्त्वा स प्रतिदिनं, कुर्वन्नाचाम्लसत्तपः॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy