________________
25
खामी विनयाध्ययनमाह । तस्य चेदमादि सूत्रम्मूलम्-संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो।विणयं पाउकरिस्सामि,आणुपुट्विं सुणेह मे ॥१॥ | व्याख्या- संयोगाद् द्रव्यतो मातापित्रादिसंबंधाद्भावतश्च कषायविषयादिक्लिष्टतरभावसंबंधात् 'विप्पमुक्कस्सत्ति' विविधैर्ज्ञानभावनादिभिः प्रकारैः प्रकर्षेण परीषहसहनादिरूपेण मुक्तो विप्रमुक्तस्तस्य, अयं भावः “अन्योऽन्यं भवचक्रे, याताः सर्वेऽप्यनन्तशो जीवाः ॥ मात्रादिबन्धुभावं, शत्रूदासीनभावं च ॥१॥" ततः कोऽत्र निजः परो वा? तथा “कोहो अमाणो अ अणिग्गहीआ, माया य लोभो अपवड्डमाणा ॥ चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥१॥" ततो न देयः कोपादिविपक्षपक्षस्थावकाशः, इत्यादिभावनाभिः खजनादिगोचराभिधंगरहितस्य । तथा-'अणगारस्सत्ति' न विद्यते अगारं द्रव्यतो दृषदादिरचितं गृहं, भावतश्च अनंतानुबंध्यादिकृतं कषायमोहनीयं यस्यासौ अनगारस्तस्य भिक्षोः साधोः विनयं साधुजनासेवितं समाचार, अभ्युत्थानादिकमुपचार वा प्रादुष्करिष्यामि प्रकटीकरिष्यामि कथयिष्यामीत्यर्थः । 'आणुपुर्वित्ति' आनुपूर्त्या परिपाट्या प्राकृतत्वात्तृतीयार्थे द्वितीया। 'सुणेह मेति' तं विनयं प्रादुष्करिष्यतः सतो मे मम सकाशात् शृणुत श्रवणं प्रति सावधानो भवत, अनेन वाक्येन धर्ममभिधातुकामेन धीधनेन पूर्व श्रोताऽभिमुखः कर्तव्य इति सूचितं, अन्यथा वक्तवाक्यस्य वैफल्यप्रसंगात्, उक्तं हि-"अप्रतिबद्धे श्रोतरि, वक्तुर्वाचः प्रयान्ति वैफल्यम् । नयनविहीने भर्चरि, लावण्यगुणस्तृणं