________________
| मूलम् — तओ से मरणंतंमि, बाले संतस्सई भया ॥ अकाममरणं मरइ, धुत्ते वा कलिणा जिए ॥ १६ ॥ व्याख्या - तत इत्यातङ्कोत्पत्तौ शोचनानन्तरं 'सेत्ति' स वालः, मरणमेवान्तो मरणान्तस्तस्मिन्नुपस्थिते इति शेषः, वालो रागादिव्यग्रचित्तः संत्रस्यति विभेतीत्यर्थः । कुतः ? भयान्नरकगतिगमनसाध्वसात्, अनेन तस्याकामत्वमुक्तं, स च तथापि मरणान्न मुच्यत इत्याह- अकामस्यानिच्छतो मरणमकाममरणं तेन म्रियते, सूत्रे चार्षत्वात् द्वितीया, नरकञ्चासौ गच्छति, तत्र चासौ शोचतीति शेषः । क इव कीदृशः सन् ? धूर्त्त इव द्यूतकार इव, वाशब्दस्योपमार्थत्वा त्कलिना एकेन प्रक्रमाद्दायेन जितः, यथा ययमेकेन दायेन जितः सन्नात्मानं शोचति, तथायमप्यतितुच्छैरतुच्छसं| क्लेशफलैर्मर्त्यभोगैर्दिव्यसौख्यं हारितो दुःखी सन् शोचतीति सूत्रार्थः ॥ १६ ॥ प्रस्तुतमर्थ निगमयितुमाह-मूलम् - एअं अकाममरणं, बालाणं, तु पवेइअं । एत्तो सकाममरणं पंडिआणं सुणेह मे ॥ १७ ॥
व्याख्या - एतदनन्तरमेव दुःकृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तदकाममरणं बालानामेव, 'तु' शब्दस्य एवार्थत्वात् प्रवेदितं प्ररूपितं तीर्थकरादिभिरिति शेषः । पण्डितमरणप्रस्तावनामाह - 'एत्तोत्ति' इतोऽकाममरणादनु सकाममरणं पण्डितानां सम्बन्धि शृणुताकर्णयत मे मॅम वदत इति शेष इति सूत्रार्थः ॥ १७॥ यथा प्रतिज्ञातमेवाहमूलम् — मरणं पि सपुण्णाणं, जहा मे तमणुस्सुअं । विष्वसन्नमणाघायं, संजयाणं बुसीमओ ॥१८॥ व्याख्या -'मरणमपि आस्तां जीवितमित्यपिशब्दार्थः, भवतीति गम्यते सपुण्यानां पुण्यवतां किं सर्वमपि ?