SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन पञ्चममध्ययनम् (५) ॥१७॥ नेत्याह-यथा येनप्रकारेण मे मम कथयत इति शेषः । तदिति पूर्वसूत्रोपात्तं, अनुश्रुतमवधारितं भवद्भिरिति गम्यं, कीदृशं ? मरणमित्याह-'विप्पसन्नंति' विविधैर्भावनादिभिः प्रकारैः प्रसन्ना मरणेप्यनाकुलचेतसो विप्रसन्नास्तत्सम्बन्धि मरणमपि विप्रसन्नं, तथा न विद्यते आघातः पीडात्मकस्तादृशयतनया परप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तदनाघातं, केषां? पुनरिदमित्याह-संयतानां चारित्रिणां 'वुसीमओत्ति' आपत्वावश्यवन्तः वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषां, एतचात्पण्डितमरणमेव, ततोयमर्थः-यथा ह्येतसंयतानां वश्यवतां विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनामिति सूत्रार्थः ॥ १८ ॥ किञ्चमूलम्-ण इमं सवेसु भिक्खुसु,न इमं सवेसु गारिसु। नाणासीला अगारत्था,विसमसीला य भिक्खुणो१९/ MT व्याख्या-नेदं पण्डितमरणं 'सत्वेस भिक्खसत्ति' सूत्रत्वात्सर्वेषां भिक्षणां परदत्तोपजीविनां व्रतिनामिति यावत, किन्तु केषाञ्चिदेवोपचितपुण्यानां भावभिक्षणां । तथा च तद्गृहस्थानां दुरापास्तमेव, अत एवाह-नेदं सर्वेपामगारिणां, सर्वचारित्रिणामेव तत्सम्भवात् , सर्वचारित्रपरिणामे तु सति तेषामपि तत्त्वतो यतित्वात् । कुत एवं ? यतो नानाशीला अनेकविधव्रता अगारस्था गृहस्था अनेकविधभङ्गकोपेतत्वाद्देशविरतेः । विषमशीलाश्च विसदृशशीलाश्च भिक्षवो, न हि सर्वेजिनमतप्रतिपन्ना अप्यनिदानिनोऽविकलचारित्रिणो वा म्रियन्ते ! तर्हि व तीर्थान्तरीयाः ? इति सूत्रार्थः ॥ १९॥ विषमशीलतामेव भिक्षूणां समर्थयितुमाह IX||१७१॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy