SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ १२ मूलम् - रण्णो तहिं कोसलिअस्स धूआ, भद्दत्ति नामेण अणिदिअंगी । तं पासिआ संजयं हम्ममाणं, कुद्धे कुमारे परिनिवेइ ॥ २० ॥ व्याख्या– राज्ञो नृपतेस्तत्र यज्ञपाटे कोशलायां भवः कौशलिकस्तस्य 'धूअत्ति' सुता भद्रेति नाम्ना अनिन्दिताङ्गी मनोज्ञदेहा तं हरिकेशवलं 'पासिअत्ति' दृष्ट्वा संयतं तस्यामप्यवस्थायां हिंसादेर्निवृत्तं हन्यमानं क्रुद्धान् कुमारान् परिनिर्वापयति क्रोधाग्निविध्यापनेन शीतीकरोतीति सूत्रार्थः॥ २० ॥ सा च तान्निर्वापयन्ती तस्य प्रभावमतिनिःस्पृहताञ्चाह - मूलम् — देवाभिओगेण निओइएणं, दिण्णासु रण्णा मणसा न झाया । नरिंददेविंदभिवंदिएणं, जेणामि वंता इसिणा स एसो ॥ २१ ॥ व्याख्या - देवस्याभियोगो बलात्कारो देवाभियोगस्तेन नियोजितेन व्यापारितेन 'दिण्णासुत्ति' दत्तास्मि अहं राज्ञा प्रक्रमात्कौशलिकेन तथापि 'मणसत्ति' अपेर्गम्यमानत्वान्मनसापि चित्तेनापि न ध्याता न कामिता येनेति सम्बध्यते, नरेन्द्रदेवेन्द्राभिवन्दितेन येनास्म्यहं वान्ता त्यक्ता ऋषिणा साधुना स एष युष्माभिः कदर्थयितुमारब्धस्ततोऽनुचितमेतदिति सूत्रार्थः ॥ २१ ॥ इममेवार्थ समर्थयितुमाह- मूलम् — एसो हु सो उग्गतवो महप्पा, जिइंदिओ संजओ बंभयारी । जो मे तया निच्छइ दिज्जमाणिं, पिउणा सयं कोसलिएण रण्णा ॥ २२ ॥ द्वादशमध्ययनम् गा २०-२२
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy