________________
उत्तराध्ययन
॥ २६७ ॥
३
१२
मूलम् — के इत्थ खत्ता उवजोइआ वा, अज्झावया वा सह खंडिएहिं । एअं तु दंडेण फलेण हंता, कंठमि घित्तूण खलेज्ज जो णं ॥ १८ ॥
व्याख्या -- के ' इत्थत्ति' अत्रास्मिन् स्थाने क्षत्राः क्षत्रियजातयः, 'उवजोइअत्ति' उपज्योतिषोऽग्निपार्श्ववर्त्तिनो महानसिका इत्यर्थः, अध्यापकाः पाठकाः, सर्वत्र वा विकल्पे, 'सहेति' युक्ताः खण्डिकैः छात्रैः सन्तीति शेषः, ये किमित्याह - एतं मुनिं दण्डेन यष्टयादिना, फलेन बिल्वादिना, यद्वा दण्डेन कूर्पराभिघातेन, फलेन मुष्टिप्रहारेणेति वृद्धाः, 'हंतत्ति' हत्वा ताडयित्वा ततश्च कण्ठे गले गृहीत्वा 'खलेज्जत्ति' स्खलयेयुर्निष्काशयेयुः, 'जोत्ति' वचनव्यत्ययात् ये 'मिति' वाक्यालङ्कार इति सूत्रार्थः ॥ १८ ॥ तदा च तत्र यदभूत्तदाह
मूलम् - अज्झायाणं वयणं सुणित्ता, उद्धाइआ तत्थ बहू कुमारा । दंडेहिं वेत्तेहिं कसेहिं चेव, समागया तं इसिं तालयंति ॥ १९ ॥
व्याख्या – अध्यापकानां पाठकानां वचनं श्रुत्वा उद्धाविता वेगेन धावितास्तत्र बहवः कुमारारछात्रादयः, ते हि अहो ! क्रीडनकमागतमिति रभसतो दण्डैर्वैशदण्डाद्यैर्वत्रैर्जलवंशरूपैः कशैश्चैव वत्रविकारैः समागता मिलितास्तं ऋषिं मुनिं ताडयन्तीति सूत्रार्थः ॥ १९ ॥ तदा च
द्वादशम ध्ययनम् (१२)
गा १८-१९
॥ २६७ ॥