SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ १२ व्याख्या– यदि त्वमसि भोगांस्त्यक्तुमशक्तः ततः किमित्याह - आर्याणि शिष्टजनोचितानि कर्माणि कार्याणि कुरु हे राजन् ! धर्मे प्रक्रमाद्गृहस्थधर्मे सम्यग्दृष्ट्याद्याचारलक्षणे स्थितः सन् सर्वप्रजानुकम्पी समस्तप्राणीदयापरः, ततः किं फलमित्याह - तत आर्यकर्म करणाद्भविष्यसि देवो वैमानिक इतोऽस्मान्मनुष्यभवादनन्तरं 'विउबित्ति' वैक्रियशरीखानिति सूत्रार्थः ॥ ३२ ॥ एवमुक्तोपि यदासौ न किञ्चित्प्रत्यपद्यत तदा मुनिः स्माह मूलम् — न तुज्झ भोगे चइऊण बुद्धी, गिद्धोसि आरंभपरिग्गहेसु । मोहं कओ इत्तिओ विप्पलावो, गच्छामि रायं आमंतिओसि ॥ ३३ ॥ व्याख्यान नैव तव भोगानुपलक्षणत्वादनार्यकर्माणि च त्यक्तुं बुद्धिः, गृद्धः प्रसक्तोसि वर्त्तसे आरम्भपरिग्रहेषु सावद्य व्यापारेषु सचित्ताचित्तादिवस्तुखीकारेषु च, मोघं निष्फलं यथा भवति तथा कृत एतावान् विप्रलापो विविधन्यर्थवचनविन्यासलक्षणः, सम्प्रति तु गच्छामि राजन् ! आमंत्रितोसि धातूनामनेकार्थत्वात् पृष्टोसि गन्तुमिति शेषः । तव हि जीवितानित्यतादर्शनादिभिर्बहुभिः प्रकारैरनुशिष्यमाणस्यापि न मनागपि वैराग्यमभूदित्यविनेयत्वा|दुपेक्षैव वरीयसीति भाव इति सूत्रार्थः ॥ ३३ ॥ इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूत्तदाह मूलम् — पंचालरायावि अ बंभदत्तो, साहुस्स तस्सा वयणं अकाउं । अणुत्तरे भुंजिअ कामभोगे, अणुत्तरे सो नरए पविट्ठो ॥ ३४ ॥ त्रयोदशमध्ययनम् गा३३-३४
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy