SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ रित्रम् कार्य तथा त्वया ॥ मद्वियोगेन्यथा दुःख-मस्या भूरि भविष्यति ॥ १७३ ॥ इत्युदीर्य गते देवे, तस्या धृतिकृते नृपः॥ नवमाध्यअकारयन्नगे तत्र, नगरं नव्यमुत्तमम् ॥ १७४ ॥ प्रलोभ्य लोकांश्चानेकान् , पुरे तत्र न्यवासयत् ॥ चैत्यान्यचीक-|| यनम् नग्गतिचरत्तेप. जिना श्च न्यवीविशत् ॥ १७५ ॥ ग्रामान् सहस्रशस्तत्रा-रण्ये चावासयन्नपः॥ तच राज्यद्वयं सम्यक, शशा-13 सोदप्रशासनः ॥ १७६ ॥ न्यायेन पालयन् राज्यं, क्रीडन् कनकमालया ॥ जिनांश्च पूजयन्नित्यं, स त्रिवर्गमसाधयत् १७३-१८७ ॥ १७७ ॥ सोथ कार्तिकराकाया-मन्यदा सैन्यसंयुतः॥ नरेन्द्रो नगराद्राज-पाटिकायै विनिर्ययौ ॥ १७८॥ तदा च पल्लवातानं, मञ्जरीपुअपिञ्जरम् ॥ माकन्दमेकमद्राक्षी-च्छत्राकारं सदाफलम् ॥ १७९॥ चूतस्य तस्य कान्तस्य, मङ्गलार्थमिलापतिः ॥ आददे मजरीमेकां, शेषामिव सुधाभुजः ॥ १८० ॥ सैन्यलोकास्ततः सर्वे, पत्रपल्लवमञ्जरीः ॥ आदाय दारुशेषं तं, सहकारं वितेनिरे ॥ १८१ ॥ गत्वारामं निवृत्तोथ, तत्रायातः क्षणान्तरे ॥ आम्रः कम्रः स कुत्रेति, राजा पप्रच्छ मंत्रिणम् ॥ १८२ ॥ मंत्रिणा च तरौ तस्मिन् , काष्ठशेषे प्रदर्शिते ॥ ईदृशोसौ । कथमभू-दित्यपृच्छत् पुनर्नृपः॥ १८३॥ उवाच सचिवो वाचं, खामिन्नस्य महातरोः ॥ जगृहे मजरी पूर्व-मेका युष्माभिरुत्तमा ॥ १८४ ॥ इत्यमुं सैनिकाः सर्वे, पत्रपुष्पफलादिकम् ॥ गृहीत्वा चक्रुरश्रीकं, धनिनं तस्करा इव ॥ १८५ ॥ तदाकर्ण्य नृपो दध्यौ, चञ्चलत्वमहो! श्रियाम् ॥ यत्तादृशोप्यसौ चूतः, क्षणान्निःश्रीकतां ययौ ! ॥ १८६ ॥ यदेव तुष्टि कृत्पूर्व, स्यात्तदेव क्षणान्तरे ॥ जायतेऽनीदृशं वान्ति-समये भोजनं यथा ! ॥ १८७ ॥ यथा हि ९ १२
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy