SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ अथ कश्चिदाक्रोशमात्रदानेनातुष्यन् वधमपि विदध्यादिति वधपरीपहमाहमूलम्-हओ न संजले भिक्खु, मणंपि न पओसए। तितिक्खं परमं नच्चा,भिक्खुधम्मं विचिंतए॥२६॥ __व्याख्या-हतो यष्टयादिभिस्ताडितो न सज्वलेत् , कायतः कम्पनप्रत्याहननादिना, वचनतश्च प्रत्याक्रोशदानादिना ज्वलंतमिवात्मानं नोपदर्शयेद्भिक्षुमनश्चित्तं तदपि न प्रदूषयेत् न कोपाद्विकृतं कुर्वीत, किन्तु तितिक्षां क्षमां परमां धर्मसाधनं प्रति प्रकर्षवती ज्ञात्वा अवगत्य भिक्षुधर्म यतिधर्म क्षान्त्यादिरूपं वस्तुखरूपं वा विचिन्तयेत् , भावयेच क्षमामूल एव मुनिधर्मो, यच्च मन्निमित्तमयं कर्मोपचिनोति, सोऽपि ममैव दोष इति नैनं प्रति कोप उचित इति सूत्रार्थः ॥ २६ ॥ अमुमेवार्थ प्रकारान्तरेणाह मूलम्-समणं संजयं दंतं, हणेज्जा कोवि कत्थइ । नत्थि जीवस्स नासोत्ति, एवं पेहिज संजए ॥ २७ ॥ 8 व्याख्या-श्रमणं तपखिन, संयतं पृथ्वीकायादिहिंसानिवृत्तं, इदञ्च लाभाद्यर्थ बाह्यवृत्त्यापि सम्भवेदत आह-दान्त-13 मिन्द्रियनोइन्द्रियदमेन, हन्यात्ताडयत्कोऽपि तादृशो दुष्टः, कुत्रचिद्धामादौ, तत्र किं कार्यमित्याह-नास्ति जीवस्यात्मन उपयोगलक्षणस्य नाशोऽभावः, शरीरस्यैव नाशात् । 'इतिः' पूर्णे, ‘एवं' वरूपार्थे, प्रेक्षेत भावयेत्संयतः साधुरिति सूत्रार्थः ॥ २७॥ निदर्शनश्चात्र, तथाहि| अभून्नगर्यां श्रावस्त्यां, जितशत्रुर्महीपतिः ॥ सधर्मचारिणी तस्य, धारिणी संज्ञिकाऽभवत् ॥ १ ॥ गौरीशयोः SANSARKARCRACKS
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy