SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ RANSARS5E व्याख्या-ये इत्यनिर्दिष्टखरूपाः संस्कृताः कृत्रिमशुद्धिमन्तो न तु तत्ववेदिनः, अत एव तुच्छा यदृच्छा-1 भिधायितया निःसाराः, परप्रवादिनः परतीर्थिकास्ते प्रेमद्वेषानुगता ज्ञेया इति शेषस्तथाहि-सर्वथा सूनृते जिनवाक्येपि या कदाग्रहादप्रतीतिः सा न रागद्वेषाभ्यां विनेति भावनीयं, अत एव 'परज्झत्ति' देश्यत्वात् परवशा रागद्वेषग्रहग्रस्ततया तद्वशाः, यदि ते ईदृशास्तर्हि किं कार्यमित्याह-एते अधर्महेतुत्वादधर्मा इत्यमुनोल्लेखेन जुगुप्समाना उन्मार्गगामिनोऽमी इति तत्खरूपमवधारयन् न तु निन्दन , निन्दायाः सर्वत्र निषेधात् , एवं विधश्च किं कुर्यादित्याह-कांक्षेदभिलषेद्गुणान् ज्ञानदर्शनचारित्रादीन् जिनागमोक्तान्, कियत्कालमित्याह-यावच्छरीरभेदो देहात् पृथग्भावो मरणमिति यावत् , अनेन च जैनेष्वेव समुत्थानं कामप्रहाणं च तात्विकमन्यत्र तु न तादृशमिति सूचितमिति सूत्रार्थः ॥ १३॥ इति ब्रवीमीति प्राग्वत् ॥ HOOAAOORDAROORanamRACRORM इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपा21 ध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्थाध्ययनं सम्पूर्णम् ॥४॥ Boarकाहन्नन्छन्डन्न्क ळलालबाहळा
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy