SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ र्थ्यप्रसङ्ग इति भावः । ये तु विद्यानुशासनं त्राणायेत्याहुस्ते कीदृशा इत्याह-'विसण्णत्ति' विविधं सन्ना मनाः पापकस हिंसाधनुष्ठानेषु सततकारितयेति भावः, कुतश्चैवं ? यतस्ते बाला मूढाः पण्डितमात्मानं मन्यन्त इति पण्डितमानिनः, अयं भावः-ये वालाः पण्डितमानिनश्च न स्युस्ते खयं सम्यगजानानाः परं पृच्छेयुस्तदुपदेशाच दुष्कर्माणि| त्यजेयन त तेषु विषण्णा एवासीरन् ! ये तु बालाः पण्डितमानिनश्च ते तु खयमज्ञा अपि ज्ञत्वगर्वादन्यं ज्ञानिनमनाश्रयन्तो विषण्णा एव स्युरिति सूत्रार्थः ॥ ११॥ अथ सामान्यतयैव मुक्तिपथप्रत्यर्थिनां दोषमाह मूलम्-जे केइ सरीरे सत्ता, वण्णे रूवे अ सबसो। मणसा कायवक्केणं, सवे ते दुक्खसंभवा ॥१२॥ RT व्याख्या-ये केचिच्छरीरे सक्ता लालनाभ्यअनोद्वर्तनादिभिर्बद्धाग्रहाः, तथा वर्णे गौरवत्वादिके, रूपे सौन्दर्य काच शब्दात् स्पर्शादिषु च सक्ता आसक्ताः, 'सबसोत्ति' सूत्रत्वात्सर्वथा खयं करणकारणादिभिः सर्वैः प्रकारैः, मनसा || कथं वयं पीनदेहा वर्णादिमन्तश्च भविष्याम इति ध्यानात् , कायेन रसाधुपभोगेन, वाक्येन रसायनादिप्रश्नरूपेण, सर्वे ते ज्ञानादेव मुक्तिरित्यादिवादिनो दुःखसम्भवा इहामुत्र च दुःखभाजनमिति सूत्रार्थः ॥ १२ ॥ यथा चैते| दुःखभाजनं तथा दर्शयन्नुपदेशसर्वखमाह- - मूलम्-आवन्ना दीहमद्धाणं, संसारंमि अणंतए । तम्हा सबदिसं पस्स, अप्पमत्तो परिवए॥ १३ ॥ व्याख्या--आपन्नाः प्राप्ता दीर्घमनाद्यनन्तं अध्वानमिवाध्वानं, अन्यान्यभवभ्रमणरूपं मार्ग, संसारे अनन्तके अप
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy