SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१८॥ यवसाने दुःखान्यनुभवन्तीति शेषः 'तम्हत्ति' यस्मादेवमेते मुक्तिमार्गवैरिणो दुःखसम्भवास्तस्मात् 'सबदिसंति' सर्व-|| षष्ठमध्यदिशः प्रस्तावादशेषभावदिशोष्टादशभेदाः "पुढवि १ जल २ जलण ३ वाया ४ मूला ५ खंध ६ ग्ग ७ पोरबीआ यनम् (६) |य ८॥ बि ९ ति १० चउ ११ पणिदितिरिआ १२ य नारया १३ देवसंघाया १४ ॥१॥ संमुच्छिम १५ कम्मा १६ कम्मभूमिगनरा १७ तहंतरहीवा १८॥ भावदिसाओ दिस्सति, संसारी निअयमेआहिं ॥२॥” इतिगाथाद्वयोक्ताः पश्यन् अप्रमत्तः प्रमादरहितः, यथा तेषां एकेन्द्रियादीनां विराधना न स्यान्न च तेषु पुनरुत्पत्तिर्भवति तथा परिव्रजेः संयमाध्वनि यायाः सुशिष्येति सूत्रार्थः ॥ १३ ॥ कथं परिव्रजेदित्याहमूलम्-बहिआ उड्डमादाय, नावकंखे कयाइवि । पुवकम्मक्खयट्ठाए, इमं देहं समुद्धरे ॥ १४ ॥ | व्याख्या-बहिर्भूतं संसारादिति गम्यते, ऊर्द्ध सर्वोपरिस्थितमर्थान्मोक्षमादाय गृहीत्वा मयैतदर्थं यतितव्यमिति निश्चित्य नावकांक्षेद्विषयादिकं नाभिलषेत् कदाचिदपि उपसर्गपरीपहाकुलिततायामपि आस्तामन्यदा। एवञ्च सत्याकांक्षाकारणं देहधारणमप्ययुक्तमित्याशङ्कापोहार्थमाह-पूर्वं पूर्वकालभावि यत्कर्म तत्क्षयार्थ इमं प्रत्यक्षं देहं समुद्धरेत उचिताहारादिभिः परिपालयेत् , तद्धारणस्य विशुद्धिहेतुत्वात्तत्पाते हि भवान्तरोत्पत्तावविरतिः स्यादुक्तञ्च-"सवत्थ ॥१८ ॥ संजमं संजमाओ अप्पाणमेव रक्खिजा ॥ मुञ्चति अतिवायाओ, पुणो विसोही न याविरई॥१॥" ततो निरभिप्वङ्गतया शरीरोद्धरणमपि कर्त्तव्यमिति सूत्रार्थः ॥ १४ ॥ देहपालने च निरभिष्वङ्गताविधिमाह
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy