________________
दशमाध्य
यनम् गा ३३-३४
मूलम्-अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिआ।
पच्छा पच्छाणुतावए, समयं गोअम मा पमायए ॥ ३३ ॥ व्याख्या-अवलो देहसामर्थ्यहीनो यथेत्यौपम्ये भारवाहकः, मा निषेधे 'मग्गेत्ति' मार्ग 'विसमेत्ति' विषमं, अवगाह्य प्रविश्य, त्यक्ताङ्गीकृतभारः सन्निति गम्यं, पश्चात्तत्कालानन्तरं, पश्चादनुतापकः पश्चात्तापकरोभूदिति शेषः । अयं भावः-यथा कश्चिद्दुःस्थो देशान्तरं गतो बहुभिरुपायैः स्वर्णादिकमुपायं खगृहमागच्छन्नतिभीरुतया वस्त्वन्तरान्तहितं स्वर्णादिकं खशिरस्यारोप्य कतिचिद्दिनानि समुत्पाट्य क्वचिदुपलादिसङ्कले पथि अहो अहमनेन भारेणाक्रान्त इति तमुत्सृज्य गृहमागतोत्यन्तनिर्धनतयानुतप्यते, किं मया निर्भाग्येन त्यक्तमिति । एवं त्वमपि प्रमादेन त्यक्तसंयमभारः सन्नेवंविधो मा भूः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३३॥ अथाल्पं तीर्ण बहु च तरणीयमिसभिप्रायेणोत्साहभङ्गो मा भूदित्याह
मूलम्-तिण्णोहुसि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ।
अभितुर पारं गमित्तए, समयं गोयम मा पमायए ॥ ३४ ॥ व्याख्या-तिण्णोहुसित्ति' तीर्ण एवासि, अर्णवमिवार्णवं संसारं, महान्तं गुरुं, किमिति प्रश्ने, पुनरिति वाफ्योप