SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ हन्यते ! ॥ १२२ ॥ तत्साम्प्रतं साम्प्रतं ते, मौनमेवेति तेन सः ॥ अनुशिष्टो भ्रकुट्या च, निषिद्धो मौनमाश्रयत् MI॥ १२३॥ ततः पर्वतकोर्वीशः, प्रपेदे नामशेषताम् ॥ उद्यमो हि विना भाग्यं, प्रत्युतानर्थदो भवेत् ! ॥ १२४॥ तस्य राज्यमपुत्रस्य, राज्यं नन्दस्य चाखिलम् ॥ बभूव चन्द्रगुप्तस्या-धीनं भाग्यैकसेवधेः ॥ १२५ ॥ तदा च केऽपि, तद्राज्य, चौय नन्दनरा व्यधुः ॥ अन्यमारक्षकं कञ्चि-चाणक्योऽमार्गयत्ततः ॥ १२६ ॥ अगाच नलदामाह्व-कुवि-2 न्दस्य गृहं भ्रमन् ॥ मत्कोटकविलेष्वनि, क्षिपन्तं तं ददर्श च ॥ १२७ ॥ किं करोपीति चाणक्य-स्तमप्राक्षीच सादरम् ? ॥ उन्मुखीभूय सोत्कर्ष, कुविन्दोप्येवमब्रवीत् ॥ १२८ ॥ दुष्टान्मत्कोटकानेतान् , मत्सूनोदंशदायिनः ॥ सान्वयान् हन्तुमनलं, बिलेषु प्रक्षिपाम्यहम् ॥ १२९ ॥ इति तस्य गिरा ज्ञात्वा, कर्मठं सोद्यमं च तम् ॥ गत्वा च | चन्द्रगुप्तान्ते, चाणक्योऽजूहवन्मुदा ॥ १३०॥ तस्मै पुराध्यक्षतां च, चन्द्रगुप्ताददापयत् ॥ भोज्याद्यैः सोऽपि विश्वास्या-ऽखिलांश्चौरान जघान तान् ॥ १३१ ॥ एवं मौर्यस्य साम्राज्ये, जाते निष्कण्टकेऽन्यदा ॥ कोशार्जनाय चाणक्यः, पौरानाढ्यानजूहवत् ॥ १३२ ॥ भोजयित्वा च तान् सद्यो, मद्यं हृद्यमपाययत् ॥ हालाहलाहलेनास्त| विवेकास्ते ततोऽभवन् ॥१३३॥ तेषून्मत्तेषु नृत्यत्सू-त्पतत्सु प्रपतत्सु च ॥ चाणक्योऽपि क्षीवचेष्टा-मनुतिष्ठन्नदोऽवदत् ॥ १३४ ॥ त्रिदण्डं धातुरक्ते द्वे, चीवरे वर्णकुण्डिका ॥ वशंवदो मे भूमांश्च, तन्मे वादय होलकम् ! ॥ १३५ ॥ तनिशम्याऽपरः सीधु-पानान्धो मदमुद्वहन् ॥ कस्याप्यनुक्तां खां लक्ष्मी, प्रादुष्कुर्वन्निदं जगौ ॥ १३६ ॥ योजनानां
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy