SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ६ ९ १२ एवावधार्यः ] इत्युक्तश्चित्रसम्भूतयोः पूर्ववृत्तान्ताख्यानेन सूत्रत्रयभावार्थः ॥ ३॥ तयोर्मिथः सम्भाषणं तु सूत्रसिद्धमित्यधुनाऽवशिष्यमाणं तदेव व्याख्यायते । तत्र चक्री यदूचे तत्सबन्धपुरस्सरं सूत्रचतुष्केनाहमूलम् - चक्कवही महिड्डीओ, बंभदत्तो महायसो । भायरं बहुमाणेणं, इमं वयणमब्बवी ॥ ४ ॥ व्याख्या - चक्रवर्त्ती महर्द्धिको ब्रह्मदत्तो महायशाः भ्रातरं पूर्वभवसोदरं बहुमानेन मानसप्रतिबन्धेन इदं वक्ष्यमाणवचनमब्रवीत् ॥ ४ ॥ तद्यथा मूलम् - आसिमो भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमन्नमणुरत्ता, अन्नमन्नहिएसिणो ॥ ५ ॥ व्याख्या – 'आसिमोत्ति' अभूवाऽऽवां भ्रातरौ द्वावपि अन्योन्यं परस्परं 'वसाणुगत्ति' वशं आयत्ततां अनुगच्छतो यौ तावन्योन्यवशानुगौ, अन्योन्यवशवर्त्तिनावित्यर्थः । तथा अन्योन्यमनुरक्तौ अतीव लेहवन्तौ, अन्योन्यं हितेषिणौ मिथः शुभाभिलाषिणौ, पुनः पुनरन्योन्यग्रहणं तु तुल्यचित्ततातिशयख्यापनार्थ, मकारश्च सर्वत्रालाक्षणिकः ॥ ५ ॥ केषु पुनर्भवेष्वित्थमावामभूवेत्याह | मूलम् — दासा दसपणे आसि, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ॥ ६ ॥ व्याख्या - दासौ दशार्णे दशार्णदेशे 'आसित्ति' अभूव, मृगौ कालिंजरे कालिंजरनाम्नि नगे, हंसौ मृतगङ्गातीरे, श्वपाकौ चाण्डालौ काशीभूमौ काश्यभिधाने जनपदे ॥ ६ ॥ त्रयोदशम ध्ययनम् गा ४-६
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy