SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ दशमाध्ययनम् गणानां दिनगणाविनाभावित्वाद्रात्रिंदिवसमूहानां, अत्यये अतिक्रमे 'एवंति' एवंप्रकारं मनुष्याणामुपलक्षणत्वात्सर्वजीवानां जीवितमायुः, तदपि हि रात्रिदिनगणानामतिक्रमे यथास्थित्या अध्यवसायादिकृतोपक्रमेण वा भ्रश्यतीत्येवमुच्यते । यतश्चैवमतः समयमपि आस्तामावलिकादि, अपेर्गम्यमानत्वात् , हे गौतम ! हे इन्द्रभते ! मा प्रमादीर्मा प्रमादं कृथाः, शेषशिष्योपलक्षणञ्चेह गौतमग्रहणं, सर्वेषामनुशासनार्थत्वादस्य । अत्र च पाण्डुरकपदाक्षिप्तं यौवनस्याप्यनित्यत्वं प्रकटयितुं नियुक्तिकारो गाथात्रयमाह-"परिअट्टिअलायण्णं, चलंतसंधिं मुअंतविंटागं ॥ पत्तं वसणप्पत्तं, कालप्पत्तं भणति गाहं ॥ १ ॥” परिवर्तितं कालपरिणामादन्यथाकृतं लावण्यं सौकुमार्यादिरूपमस्येति परिवर्तितलावण्यं, तथा चलत्सन्धिं, अत एव 'मुअंतविंटागंति' मुञ्चद्वन्तं त्यजद्वन्तं यस्य तत्तथा पतदित्यर्थः । पत्रं पर्ण, व्यसनमापदं प्राप्त व्यसनप्राप्त, कालं प्रक्रमात्पतनप्रस्ताव प्राप्तं कालप्रासं, भणति गाथां पल्लवान् प्रतीति शेषः ॥ १॥ तामेवाह-"जह तुम्हे तह अम्हे, तुम्भे वि अ होहिआ जहा अम्हे ॥ अप्पाहेइ पडतं, पंडुअपत्तं किसलयाणं ॥२॥" यथेति सादृश्ये ततो यथा यूयं सम्प्रति किसलयभावं प्राप्ताः स्निग्धत्वादिगुणैर्गर्वमुद्वहथ अस्मांश्चोपहसथ तथा वयमप्यतीतदशायामभवाम, तथा यूयमपि भविष्यथ यथा वयं विवर्णविच्छायतयोपसहनीयानीति भावः । 'अप्पाहेइत्ति' पुत्रस्य पितेव हितमुपदिशति, पतत्पाण्डुपत्रं किसलयानां ॥२॥ ननु किमेवं पाण्डुपत्रपल्लवानामुल्लापः सम्भवति ? येनैवमुच्यत इत्याह-"नवि अत्थि नवि अ होही
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy