SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ दशमाध्ययनम्(१०) गौतमव|क्तव्यता उत्तराध्ययन है। गुरुकर्मा ह्यहं नास्मिन् , भवे प्राप्स्यामि निर्वृतिम् ॥ अमी महीक्षिता धन्या-स्तत्कालोत्पन्नकेवलाः ॥ १५२ ॥ ॥२४॥ कुर्वाणमेवमधृति-मिन्द्रभूतिगणाधिपम् ॥ इति स्माह महावीर-वामी विश्वैकवत्सलः ॥१५३॥ अष्टापदासिद्धिरिति, किं ग्राह्यं दैवतं वचः॥ यद्वा जिनानामायुष्मन् !, जिनानामिति सोप्यवक् ॥ १५४ ॥ प्रभुः स्माहाधृतिं तन्मा-कापीः स्नेहा यदङ्गिनाम् ॥ भवन्ति सुण्ठद्विदल-चर्मोण्णाकटसन्निभाः ॥ १५५ ॥ चिरन्तनात्परिचयात् , तवोर्णाकटसन्निभः ॥ प्रणयो वर्त्ततेस्मासु, प्राप्यते तन्न केवलम् ॥ १५६ ॥ यो हि वित्तवधूज्ञाति-रागत्यागनिवन्धनम् ॥ रागोहदुरुधर्मादौ, प्रशस्तः कथितो जिनैः ॥ १५७ ॥ सोप्यायुष्मन् ! यथाख्यातं, प्रतिबन्नाति संयमम् ॥ रविं विना दिनमिव, तं विना नहि केवलम् ॥ १५८ ॥ गते त्वस्मद्गते रागे, ध्रुवं ते भावि केवलम् ॥ आवामितश्युतौ तुल्यौ, भविष्यावो धृतिं कुरु ॥ १५९ ॥ इत्थमुदीर्य तदा हितशिक्षा, तस्य मुनिप्रकरस्य च दातुं ॥ अध्ययनं द्रुमपत्रकसंज्ञं, स्माह जिनो जगतीहितमेतत् ॥ १६० ॥ इत्युक्ता प्रस्तावना, साम्प्रतं सूत्रमनुस्त्रियते, तचेदम्__ मूलम्-दुमपत्तए पंडुअए जहा, निवडइ राइगणाणमच्चए। एवं मणुआण जीविअं, समयं गोअम ! मा पमायए ॥१॥ व्याख्या-द्रुमो वृक्षस्तस्य पत्रं पर्ण द्रुमपत्रं तदेव द्रुमपत्रकं, 'पंडुअएत्ति' आपत्वात् पाण्डरकं कालपरिणामात्तथाविधरोगादेर्वा जातश्चेतभावं, यथा येन प्रकारेण निपतति शिथिलवृन्तबन्धनत्वाद्भश्यति । 'राइगणाणंति' रात्रि ॥२४३॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy