SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ २८३ ॥ १५ १८ २१ २४ विद्याद्यसेत्स्यति स्वामिन्! ॥ विद्यावलोर्जितबलः, परिणेष्यति मा ततः स कुधीः ॥ १७८ ॥ अथ तद्वधव्यतिकरे, तेनोक्ते साधु कृतमिति ब्रुवती ॥ मुमुदे भृशं कनी सा, प्रियलाभादप्रियोच्छेदात् ॥ १७९ ॥ अथ तामुदुख कन्यां गान्धर्वविवाहरचनया नृपभूः ॥ रमयन् विविधैः सुरतै - स्तां क्षणदां क्षणमिवाक्षपयत् ॥ १८० ॥ प्रातश्च खेचरीणां, ध्वनिमवनिधवाङ्गजोऽम्बरे श्रुत्वा ॥ वियति भवति कस्यायं ध्वनिरिति पप्रच्छ पुष्पवतीम् ॥ १८९ ॥ सा प्रोचे प्रिय ! नाट्यो-न्मत्ताह्वत्वद्रिपोरिमे जामी ॥ भ्रातुः कृते विवाहो-पस्करमादाय सकलमपि ॥ १८२ ॥ ' खण्डा' 'विशाखिका' ssख्ये, खेचरकन्ये मुधा समायातः ॥ कार्य ध्यातमितरथा, दैवेन ह्यन्यथा घटितम् ! ॥ १८३ ॥ [ युग्मम् ] तत्तावदपसर त्वं, यावत्सङ्कीर्त्य तव गुणान् प्रगुणान् ॥ जानाम्यनयोर्भावं, त्वयि रागविरागयोः स्वामिन् ! ॥ १८४॥ रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं त्वमागच्छेः ॥ रागाभावे तु सितं, तञ्च प्रेक्ष्यान्यतो गच्छेः ॥ १८५ ॥ अभयोपि ततो नृपभू-स्तस्थौ गत्वान्यतस्तदनुवृत्या ॥ अथ पुष्पवती श्वेतं, चलयामास क्षणात् केतुम् ॥ १८६ ॥ तं च प्रेक्ष्य कुमारः, शनैः शनैः प्रस्थितोऽन्यतो गन्तुम् ॥ उल्लंध्य वनं दुर्गम-मेकमविन्दत सरः सायम् ॥ १८७ ॥ तत्र स्नात्वा सलिलं, निपीय पीयूपसरसमथसरसः ॥ निर्गत्य ब्रह्मसुत-स्तरमुत्तरपश्चिमं भेजे ॥ १८८ ॥ तत्र च कन्यां काञ्चित्समीक्ष्य जलदेवतामिवाध्यक्षाम् ॥ सफलं जन्म ममाभू-दद्येति नृपाङ्गजो दध्यौ ॥ १८९ ॥ तद्दर्शनामृतरसं, त्रयोदशमध्ययनम् (१३) चित्रसम्भूतचरित्रम् १७८-१८९ ॥ २८३ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy