SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ दाणादिभिरेतेषां, खाध्यायो मेऽवसीदति ॥ ५॥ गुणश्च कश्चिदप्येषां, मद्वाक्यैव जायते ॥ कर्मबन्धस्तु मे नित्यं, भवत्येभिरनाश्रवैः ॥ ६॥ विहाय तदमून् क्वापि, गच्छामीति विचिन्त्य ते ॥ शय्यातरश्रावकाय, परमार्थ न्यवेदयन् ॥७॥ ऊचुश्चैवं मयि गते, चेत्स्युः सानुशया अमी ॥ तदा मदाश्रितामाशां, भृशं सन्तयं दर्शयेः !॥८॥ एवमुक्त्वा च मुक्त्वा च, सुप्तांस्तानखिलानपि ॥ निशावसाने सूरीन्द्रा, नगर्या निर्ययुस्ततः॥९॥स्वकीयशिष्यशिष्यस्य, बहुशिष्यस्य धीमतः॥ पार्थे सागरसूरेस्ते, वर्णभूमौ खयं ययुः ॥ १० ॥ अदृष्टपूर्वान् तान्नोपा-लक्षयत्सागरस्ततः ॥ नाऽभ्युत्तस्थौ न चानंसी-दज्ञानं हि रिपूयते!॥ ११॥ नाऽकुप्यन् सूरयो ज्ञाना-त्ते तेनाऽसत्कृता अपि ॥ तस्थुः किन्तु तदभ्यणे, तानच्छच सागरः ॥ १२ ॥ ब्रूहि वृद्धमुने ! कस्मात् , स्थानादत्र त्वमागमः ॥ अवन्त्या इति गाम्भीर्या-म्भोधयः सूरयोऽभ्यधुः!॥ १३॥ विनेयान् पाठयन् सोऽथ, सूरीन्द्रानिति पृष्टवान् ॥ ज्ञातार्थोऽयं श्रुतस्कन्धो, वृद्ध ! ते विद्यते न वा ? ॥ १४ ॥ ज्ञातार्थ इति तैरुक्ते, प्रज्ञाददुवा च सः॥ मया व्याख्यायमानं त्वं, श्रुतस्कन्धममुं शृणु ॥ १५॥ इत्युक्त्वा स विशेषात्तं, व्याख्यातुमुपचक्रमे ॥ प्रज्ञावन्तमसौ वृद्धो, मां जानात्विति चिन्तयन् ! ॥१६॥ इतश्च कालकार्याणां, शिष्यास्ते प्रातरुत्थिताः ॥ निजं गुरुमपश्यन्तो जज्ञिरे भृशमाकुलाः ॥१७॥ पप्रच्छुरिति सम्भ्रान्त-खान्ताः शय्यातरं च ते ॥ अस्मान् विमुच्य गुरवः, व गता इति शंस नः ॥ १८ ॥ सकोप इव सोप्यवं,
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy