SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १३६ ॥ 14 ब्याख्या — मित्रवान्वयस्यवान् भवतीति योगः १ । ज्ञातिमान् खजनवान् भवति २ । उच्चैर्गोत्र उत्तमकुलः ३ । चः समुच्चये, वर्णवान् प्रशस्तशरीरच्छविः ४ । अल्पातङ्क आतङ्कविरहितो नीरोग इत्यर्थः ५ । महाप्राज्ञः पण्डितः ६ । अभिजातो विनीतः स हि सर्वजनाभिगम्यो भवति, दुर्विनीतस्तु शेषगुणयुक्तोपि न तथेति ७ । अत एव च 'जसोत्ति' यशस्वी शुभख्यातिमान् ८ । 'बलेति' बली कार्यकरणम्प्रति सामर्थ्यवान् ९ । उभयत्र सूत्रत्वान्मत्वर्थीयलोप इति सूत्रद्वयार्थः ॥ १८ ॥ ननु यथोक्तगुणयुक्तं मानुष्यमेव तत्फलमुतान्यदपीत्याह - मूलम् - भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउअं ॥ पुवं विसुद्धसद्धम्मे, केवलं बोहि बुज्झिआ ॥ १९ ॥ व्याख्या - भुक्त्वा मानुष्यकान् मनुष्यसम्बन्धिनो भोगान् मनोज्ञशब्दादीन् अप्रतिरूपान् अनन्यतुल्यान्, यथायुरायुषोऽनतिक्रमेण, पूर्व पूर्वजन्मनि विशुद्धो निदानादिरहितः सद्धर्मः शोभनधर्मोऽस्येति विशुद्धसद्धर्मः, | केवलमकलङ्कं बोधिं जिनोक्तधर्मावातिलक्षणं बुद्धा अनुभूय प्राप्येति यावत् ॥ १९ ॥ ततः किमित्याह - मूलम् - चउरंगं दुल्लहं मच्चा, संजमं पडिवज्झिआ ॥ तवसा धुअकम्मंसे, सिद्धे हवइ सासएत्ति बेमि ॥ २० ॥ ॥ इइ तइयमज्झयणं सम्मत्तं ॥ तृतीयमव्ययनम् (३) | ॥ १३६ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy