SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ ध्ययनम् ३ मानुष्यका मनुष्यसम्बन्धिनस्तथा तैरचा तिर्यक्सम्बन्धिनः, भीमा रौद्राः, भयेन भैरवा महाभयोत्पादका भयभैरवाः, पञ्चदशमउदारा महान्तः, यस्तान् शब्दान् श्रुत्वा न बिभेति धर्मध्यानान्न चलति स भिक्षुरिति सूत्रार्थः ॥ १४ ॥ इत्येतावता गा १५ सिंहविहारिताया निमित्तमुक्तमथ सकलधर्ममूलं सम्यक्त्वस्थैर्यमाह मूलम्-वायं विविहं समिच्च लोए, सहिए खेदाणुगए अ कोविअप्पा। पण्णे अभिभूअ सबदंसी, उवसंते अविहेडए स भिक्खू ॥ १५ ॥ | व्याख्या-वादं विविधं "मुण्डस्य भवति धर्म-स्तथा जटाभिः सवाससां धर्मः ॥ गृहवासेपि च धर्मो, वनेपि च । सतां भवति धर्मः॥१॥” इत्यादिकदर्शनान्तराभिप्रायरूपं समेत्य ज्ञात्वा लोके, सहितःप्राग्वत् , खस्मै हितः खहित इति वा, खेदयति कर्मानेनेति खेदः संयमस्तेनानुगतः खेदानुगतः, चः पूरणे, कोविदो लब्धसमयरहस्य आत्मा यस्य स कोविदात्मा, 'पण्णे अभिभूअ सबदसीति' प्राग्वत् , उपशान्तो निष्कषायः, अविहेठको न कस्यापि बाधको यः स भिक्षुरिति सूत्रार्थः ॥ १५॥ तथा P १ सहितः ज्ञानक्रियाभ्याम् , यद्वा सह हितेन आयतिपथ्येन अनुष्ठानेन वर्त्तते इति सहितः । २ प्राज्ञो हेयोपादेयबुद्धिमान् , अभिभूय | परीषहोपसर्गान् , सर्व प्राणिवर्ग आत्मवत् पश्यतीति सर्वदर्शी ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy