SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥६२॥ सकलां साकं, द्वारकां ज्वालयिष्यति ॥ १२ ॥ वसुदेवजरादेवी-नन्दनान्निजसोदरात् ॥ भावी जराकुमाराच, तव द्वितीयमध्यमृत्युर्जनार्दन ! ॥१३॥ श्रुत्वेति यदवः सर्वे-ऽप्युल्मुकायितदृष्टयः॥ व्यलोकयन् जरापुत्रं, सोऽपि चैवमचिन्तयत् ४|| यनम् (२) |॥ १४ ॥ कनीयांसं कुलाधार, भ्रातरं भ्रातृवत्सलम् ॥ कथङ्कारं हनिष्यामि ? वसुदेवसुतोऽप्यहम् ॥ १५॥ तदेतदन्यथा कुर्वे, ध्यायन्निति जराङ्गजः ॥ जिनं नत्वा ययौ सद्यः, कान्तारं चापतूणभृत् ॥ १६ ॥ जिनवाचं जनश्रुत्या, श्रुत्वा द्वैपायनोऽपि ताम् ॥ यदूनां द्वारकायाश्च, रक्षा कर्तुमगनिम् ॥ १७ ॥ नत्वार्हन्तं हरिरपि, प्राविशद्वारकापुरीम् ॥ तं चानथे मद्यमूलं, ध्यायन्नित्युदघोषयत् ॥ १८ ॥ मद्योन्मत्तकुमारीघ-हताद्वैपायनाद्यतः ॥ उपद्रवो द्वारकायाः, श्रीनेमिखामिनोदितः ॥ १९॥ तत्पार्थस्थाचलासन्न-कदम्बवनमध्यतः ॥ कादम्बरीदरीवत्ति-शिलाकुण्डेषु भूरिषु ॥ २० ।। सकलं प्राककृतं मद्य, हेयं पेयं न तत्पुनः ॥ लोकाः सर्वेऽपि तच्छ्रुत्वा, जहुस्तत्राखिलों सुराम् ॥ २१॥ (त्रिभिर्विशेषकम् ) भ्राताऽथ बलदेवस्य, स्नेहात्तस्यैव सारथिः॥ सिद्धार्थः श्रुतसर्वज्ञ-वाणिरित्यवदवलम् ॥ २२ ॥ नोत्सहे दुर्दशां प्राप्ते, द्रष्टं स्वीयपुरीकले ॥ तदहं खामिपादान्ते. प्रव्रजामि त्वदाज्ञया ॥ २३॥ ततोऽनवीद्वलोऽजस्र-स्रवदश्रुजलाविलः ॥ भ्रातर्मयेदं त्वद्वश्य-प्राणेनाऽप्यनुमन्यते ॥ २४ ॥ किन्तु व्रतं पालयित्वा, त्व NE॥२॥ देवत्वमुपागतः॥ भ्रातर्मा व्यसनप्राप्त-मागत्य प्रतिबोधयः॥ २५॥ तत्प्रपद्याथ सिद्धार्थो, परिव्रज्य जिनान्तिके ॥ १ कदम्बवनवर्तिषु । इति 'ग' संज्ञकपुस्तके ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy