SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ SHASRASASS प्रार्थ्यते, खभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते इत्येतद्भिक्षुर्न चिन्तयेत् , बहुसावद्यो हि गृहवासः, कथं | |श्रेयानिति सूत्रार्थः ॥ २९॥ उदाहरणसम्प्रदायश्चात्र, तथाहि__अस्त्यत्र भरते वर्ण-मयी त्रिदशेनिर्मिता ॥ प्रतिबिम्बमिव वर्ग-लोकस्य द्वारका पुरी ॥१॥नलार्धचक्रिणौ राम-कृष्णाद्वौ विश्वविश्रुतौ ॥ तत्राऽभूतां वसुदेव-रोहिणीदेवकीसुतौ ॥ २॥ तौ च प्रद्युम्नशाम्बाद्यैः, सार्धकोटित्रयोन्मितैः ॥ युक्तौ कुमारैरन्यैश्च, कोटिशो यदुपुङ्गवैः ॥३॥ सुररामाभिरामाभिः, स्त्रीभिः सह सहस्रशः ॥ भोगाभोगानभुजातां, पूर्णाखिलमनोरथौ ॥ ४ ॥ [ युग्मम् ] अन्यदा द्वारकापुर्या, केवलज्ञानभास्करः ॥ भव्याजप्रतिबोधार्थ, श्रीनेमिः समवासरत् ॥ ५॥ तदा च श्रीनेमिनाथं, वन्दित्वा रामकेशवौ ॥ समाकर्णयतां धर्म-देशनां सप-2 रिच्छदौ ॥६॥ देशनान्ते च सर्वज्ञं, प्रणम्यापृच्छदच्युतः ॥ अमुष्या द्वारकापुर्याः, वर्गधिकारिसंपदः ॥ ७॥ यदूनां मम चान्तः किं, भावी खत उतान्यतः ? ॥ ततो जगाद भगवान् , ज्ञानराशिरिवाङ्गवान् ॥ ८॥ बहिः शौर्यपुरापारा-सरावस्तापसोऽभवत् ॥ वीक्ष्य नीचकुलां काञ्चित्कन्यां सोऽभूत्स्मरातुरः ॥९॥ तया समं च यमुना-द्वीपे गत्वाऽऽरराम सः॥ ततस्तयोरभूत्सूनु-व्रती द्वैपायनाह्वयः ॥ १०॥ स परिव्राजको ब्रह्म-चारी शान्तो जितेन्द्रियः ॥ इहास्ते यदुषु स्नेहात्, कुर्वन् षष्ठतपः सदा ॥ ११॥ शाम्बादिभिः स मद्यान्धैः, कुट्टितश्चण्डतां गतः ॥ यदुभिः १ यदुभिः सकलैः साकं, द्वारकां ज्वालयिष्यति । इति 'ग' संज्ञकपुस्तके ।
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy